________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
पा. २. ]
उपलब्ध्यधिकरणम्.
वेदान्तसारे-नाभाव उपलब्धेः ॥ ज्ञानव्यतिरिक्तार्थाभाववादा न सम्भवति; 'घटमहं जानामि' इति कर्तृज्ञानकर्मतयाऽर्थस्य उपलब्धेः न तदभावश्शस्यते वक्तुम् । पुरुषस्यार्थविशेषव्यवहारानुगुण्यापादकत्वमेव ज्ञानस्याकारः ॥ २७॥
Acharya Shri Kailassagarsuri Gyanmandir
१०३
वैधर्म्याच्च न खमादिवत् || कारणदोषबाधकप्रत्यय राहित्य रूपवैषम्याश्च न स्वप्नादिवजागरितज्ञानस्य मिध्यात्वम् ॥ २८ ॥
न भावोऽनुपलब्धेः || अर्थशून्यस्य ज्ञानस्य सद्भावो न सम्भवति, अनुपलब्धेः । स्वप्नज्ञानस्याप्यर्थवत्तोपपादयिष्यते ॥ २९ ॥
इति वेदान्तसारे उपलब्ध्यधिकरणम् || ४ ||
For Private And Personal Use Only
वेदान्तदीपे - नाभाव उपलब्धेः || योगाचाराभिमतः शानमात्रसद्भाववादः किं समीचीनयुक्तिमूलः, उत नेति संशयः । समीचीनयुक्तिमूल इति पूर्वः पक्षः । बाह्यार्थसद्भाववादिनापि तत्तदर्थाकारज्ञानस्य प्रकाशमानत्वमवश्याश्रयणीयम् । सर्वस्य वस्तुनः प्रकाशमानस्य स्वासाधारणेनाकारेण प्रकाश इष्यते । तत्र घटपटादिज्ञानस्य घटपदाद्याकार एवाकारः । अन्यथा घटाद्यसाधारण्यं च तत्तज्ज्ञानस्य न सम्भवति । एकश्चायमाकार उपलभ्यते । स तु ज्ञानस्यैवेति तयतिरिक्तार्थसद्भाववादोऽनुपपन्नः । तावतैव 'घटोऽयं ज्ञातः' इति व्यवहारश्चोपपद्यते । तस्य बहिर्वदवभासो निर्मूलत्वाद्विभ्रमकृतः । राद्धान्तस्तु - 'घटमहं जानामि' इति सकर्मकस्य सकर्तृकस्य ज्ञाधात्वर्थस्य च्छेदनादिवत्सर्वलोकसाक्षिकमुपलभ्यमानस्य कर्तृकर्मव्यतिरेकेण केवलस्यैव सद्भावमनुन्मत्तः को ब्रवीति । स्वासाधारणाकारश्च छेदनादिवत्तत्तदर्थव्यवहारयोग्यतापादना कारणोपलभ्यते । एवं छेदनादेरप्याकारो द्विधाभावनादिहेतुतयैव कर्तृगतस्योपलभ्यते । नह्यमूर्तानां क्रियादीनां कर्तृकर्मनिरूपणीयस्त्राकाराणां कर्माकारत्वमाश्रीयते । सूत्रार्थस्तु नाभाव उपलब्धेः - ज्ञानव्यतिरिकार्थाभावो न शक्यते वक्तुम्, उपलब्धेः -- 'घटमहं जानामि इति जानातेः कर्मतया कर्तृतया चोपलब्धेः ॥ २७ ॥
वैधर्म्याच्च न स्वमादिवत् || स्वप्नज्ञानादिवच्च जागरितज्ञानानां न मिथ्यार्थत्वम्, तद्वैधर्म्यात् निद्रादिकारणदोषबाधकप्रत्ययरहितत्वादित्वर्थः ।