________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०२ श्रीशारीरकमीमांसाभाज्ये
म. २. तद्धियोः"इति, तत्ववचनविरुद्धम् , साहित्यस्यार्थभेदहेतुकत्वात्। तदर्थव्यवहारयोग्यतैकखरूपस्य ज्ञानस्य तेन सहोपलम्भनियमस्तस्मादवैलक्षण्यसाधनमिति च हास्यम्।निरन्वयविनाशिनां ज्ञानानामनुवर्तमानस्थिराकारविरहाद्वासना च दुरुपपादा । विनष्टेन पूर्वज्ञानेनानुत्पन्नमुत्तरज्ञानं कथं वास्यते । अतो ज्ञानवैचित्र्यमप्यर्थवैचित्र्यकृतमेव । तत्तदर्थव्यवहारयोग्यतापादनरूपतया साक्षात्मतीयमानस्य ज्ञानस्य तत्तदथसम्बन्धायत्तं तत्तदसाधारण्यम् । सम्बन्धश्च संयोगलक्षणः। ज्ञानमपि हि द्रव्यमेव। प्रभाद्रव्यस्य प्रदीपगुणभूतस्येव ज्ञानस्याप्यात्मगुणभूतस्य द्रव्यत्वमविरुदमित्युक्तम् । अतो न बाह्यार्थाभावः ॥
यत्परैः स्वमज्ञानदृष्टान्तेन जागरितज्ञानानामपि निरालम्बनत्वमुक्तम् । तत्राह
वैर्धम्याच न स्वप्नादिवत् ।२।२।२८॥
स्वमज्ञानवैधाज्जागरितज्ञानानामर्थशून्यत्वं न युज्यते वक्तुम् । खमज्ञानानि हि निद्रादिदोषदुष्टकरणजन्यानि, बाधितानि च जागरितज्ञानानि तु तद्विपरीतानीति तेषां न तत्साम्यम् । सर्वेषांच ज्ञानानामर्थशून्यत्वे भवद्भिस्साध्योऽप्यर्थो न सिध्यति, निरालम्बनानुमानस्याप्यर्थशून्यत्वात् । तस्यार्थवत्त्वे ज्ञानत्वस्यानैकान्त्यात्सुतरामर्थशून्यत्वासिद्धिः।।
न भावोऽनुपलब्धेः ।२।२।२९॥
न केवलस्यार्थशून्यस्य ज्ञानस्य भावस्सम्भवतिः कुतः कचिदप्यनुपलब्धेः । नह्यकर्तृकस्याकर्मकस्य वा ज्ञानस्य कचिदुपलब्धिः। स्वमज्ञानादिष्वपि नार्थशून्यत्वमिति ख्यातिनिरूपणे प्रतिपादितम् ॥
इति श्रीशारीरकमीमांसाभाष्ये उपलब्ध्यधिकरणम् ॥ ४ ॥
For Private And Personal Use Only