________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-nt श्रीशारीरकमीमांसाभाष्ये उपलब्ध्यधिकरणम् ॥ ४॥)---
नाभाव उपलब्धेः ।२।२।२७॥ विज्ञानमात्रास्तित्ववादिनो योगाचाराः प्रत्यवतिष्ठन्ते । यदुक्तमर्थवैचित्र्यकूनं ज्ञानवैचित्र्यमिति; तन्नोपपद्यते, अर्थवत् ज्ञानानामेव साकाराणां स्वयमेव विचित्रत्वात् । तच्च स्वरूपवैचित्र्यं वासनावशादेवोपपद्यते । वासना च विलक्षणप्रत्ययप्रवाह एव । यद्धटाकारज्ञानं कपालाकारज्ञानस्योत्पादकम् ,तस्य तथाविधस्योत्पादकं तत्पूर्वघटज्ञानम् । तस्य च तथाविधस्योत्पादकं ततःपूर्वघटज्ञानम् इत्येवं रूपः प्रवाह एव वासनेत्युच्यते। कथं बहिष्टसर्षपमहीधरादेराकार आन्तरस्य ज्ञानस्येत्युच्यते ? इत्थम्अर्थस्यापि व्यवहारयोग्यत्वं ज्ञानप्रकाशायत्तम् , अन्यथा स्वपरवेद्ययोरनतिशयप्रसङ्गात्। प्रकाशमानस्य च ज्ञानस्य साकारत्वमवश्याश्रयणीयम् , निराकारस्य प्रकाशायोगात् । एकश्चायमाकार उपलभ्यमानो ज्ञानस्यैव। तस्य च बहिर्वदवभासोऽपि भ्रमकृतः। ज्ञानार्थयोस्सहोपलम्भनियमाच्च ज्ञानादव्यतिरिक्तोऽर्थः। किश्च बाह्यमर्थमभ्युपयद्भिरपि घटपटादिविज्ञानेषु ज्ञानस्य तत्तदर्थासाधारण्यं तत्तदर्थसारूप्यमन्तरेण नोपपद्यत इत्यवश्यं ज्ञानेऽर्थसरूपं रूपमास्थयम् । तावतैव सर्वव्यवहारोपपत्तेः तद्व्यतिरिक्तार्थकल्पना निष्पामणिका । अतो विज्ञानमात्रमेव तत्त्वम्, न बाह्या
र्थोऽस्ति--इति. ___ एवं प्राप्ते प्रचक्ष्महे-नाभाव उपलब्धेः-इति । ज्ञानातिरिक्तस्यार्थस्याभावो वक्तुं न शक्यते; कुतः उपलब्धेः-ज्ञातुरात्मनोऽर्थविशेषव्यवहारयोग्यतापादनरूपेण ज्ञानस्योपलब्धेः। एवमेव हि सर्वे लौकिकाः प्रतियन्ति--'घटमहं जानामि' इति । एवंरूपेण सकर्मकेण सकेन ज्ञाधात्वर्थेन सर्वलोकसाक्षिकमपरोक्षमवभासमानेनैव ज्ञानमात्रमेव परमार्थ इति साधयन्तस्सर्वलोकोपहासोपकरणं भवन्तीति वेदवादच्छद्मप्रच्छन्नबौद्धनिराकरणे निपुणतरं प्रपश्चितम् । यत्तु"सहोपलम्भनियमादभेदो नील
For Private And Personal Use Only