________________
Shri Mahavir Jain Aradhana Kendra
१००
www.kobatirth.org
| अ. २.
वर्णाद्यात्मकघटमकुटादिवत् अतस्तुच्छादुत्पत्तिस्तुच्छतापत्तिश्च न सम्भ
वतः ॥ २२ ॥
वेदान्तदीपे
आकाशेचाविशेषात् || आकाशे तुच्छखरूपता न सम्भवति, अबाधितप्रतीतिसिद्धपृथिव्यादिवत् आकाशेऽप्यबाधितप्रतीतेरविशेषात् । प्रतीयते ह्याकाशः, 'अत्र श्येनः पतत्यत्रगृध्रः' इति श्येनादेः पतनदेशत्वेन ॥ २३ ॥
Acharya Shri Kailassagarsuri Gyanmandir
अनुस्मृतेश्व || प्रत्यभिज्ञानाश्च न घटादेः क्षणिकत्वम् । 'तदेव इदम्' इति हि प्रत्यभिज्ञायते । (प्रत्यभिज्ञानं हि नाम, अतीतवर्तमानकालवर्त्येक वस्तुविषयमेकं प्रत्यक्षज्ञानम् । तस्य कालद्वयसम्बन्धविशिष्टमेव वस्तु विषयः । न च तदित्यशस्स्मरणम्, इदमित्यंशश्च ग्रहणम्, अतीतकालसम्बन्धिनीन्द्रियसम्प्रयोगाभावादिति वाच्यम्, तदिदमिति सामानाधिकरण्येन ग्रहणस्यैकत्वस्फुरणात् । पूर्वकालानुभवजनितसंस्कारसह कृतेन्द्रियसम्प्रयोगयुक्तस्य पुरुषस्य तथा ग्रहणमुपपद्यत एव । अन्वयव्यतिरेकाधीनं हि सर्वत्र सामग्रीपरिकल्पनम्) । नच ज्वालादिवत्सादृश्यनिबन्धना प्रत्यभिज्ञेति त्वया वक्तुं शक्यम्, कालद्वयवर्तिनोर्द्वयोस्सादृश्यस्यानुसन्धातुः ज्ञातुरेकस्यानभ्युपगमात् ॥ २४ ॥
1
-
विज्ञानानुमेयार्थवादिनं प्रत्याह । स हि ज्ञाने नीलपीतादिविचित्राकारं दृष्ट्वा ज्ञानात्पूर्वक्षणवर्तिनं ज्ञाने स्वाकारं समर्प्य विनष्टमर्थमनुमिनोति । तत्रो
त्तरम् -
नासतोऽदृष्टत्वात् || असतो धर्मिणो धर्मस्यान्यत्र सङ्क्रमणं न सम्भवति, कुतः ? अदृष्टत्वात् न हि धर्मिणि विनष्टे तद्धर्मस्यान्यत्र सङ्क्रमणं क्वचिद्दृष्टम् ॥ २५ ॥
उदासीनानामपि चैवं सिद्धिः ॥ वैभाषिकसौत्रान्तिकयोर्द्वयोरपि साधारणमिदं दूषणम् ; एवं सर्वभावानां क्षणिकत्वाभ्युपगमे सति, उदासी - नानां निष्प्रयत्नानामपि ऐहिकामुष्मिक सर्वार्थसिद्धिस्स्यात् प्रयत्नाद्यनुतिष्ठतस्तदानीमेव विनष्टत्वात् तत्तत्संस्कारादेरपि कस्यचित् स्थिरस्यानुर्तर्तमानस्यानभ्युपगमाच्च पश्चादागता सिद्धिरहैतुकीति निष्प्रयत्नानामप्यहिकामुष्मिक सर्वार्थसिद्धिस्स्यात् ॥ २६ ॥
"
"
इति वेदान्तदीपे समुदायाधिकरणम् || ३ ||
() कुण्डलितग्रन्थः केषुचित्कोशेषु न दृश्यते ॥
For Private And Personal Use Only