________________
Shri Mahavir Jain Aradhana Kendra
पा. २. ]
www.kobatirth.org
समुदायाधिकरणम्.
Acharya Shri Kailassagarsuri Gyanmandir
इतरेतरप्रत्ययत्वादुपपन्नमितिचेन्न सङ्घातभावानिमित्तत्वात् । यद्यपि क्षणिकास्सर्वे भावाः, तथाप्यविद्यादीनामितरेतरहेतुकत्वादुपपन्नं लोकव्यवहा रादिकम् : अस्थिरेषु स्थिरत्वबुद्धिरूपया अविद्यया तत्रतत्र रागद्वेषादयो जाय. न्ते ; इत्येवमादिपरम्परया पुनरप्यविद्येति चक्रवत्परिवर्तत इति चेत् — नैतदुपपद्यते, सङ्घाताभावानिमित्तत्वादविद्यायाः ; यद्यप्यविद्याख्या विपरीतबुद्धिः क्षणिक स्थिरत्वेन विषयीकरोति, तथापि तन्न वस्तुतः स्थिरं भवतीति षस्तुतस्थिरकायें न करोति; अतस्सङ्घातभावो न सिध्यतीत्यर्थः; अस्थिरे स्थिरत्वबुद्धियुक्तस्य विज्ञानात्मनस्तदैव नष्टत्वात्कस्य रागद्वेषादयो जायन्त इति रागद्वेषादिपरम्परा च न सिध्यतीत्यभिप्रायः ॥ १८ ॥
इतश्च
उत्तरोत्पादे च पूर्वनिरोधात् ॥ उत्तरघटक्षणोत्पत्तिवेलायां पूर्वस्य विनष्टत्वादभावस्यैव हेतुत्वेनाविशेषात्सर्वेषां सर्वदोत्पत्तिः प्रसज्यते । पूर्वक्षणबर्तिनो हेतुत्वोपगमेऽपि देशादेर्विशेषकस्य स्थिरस्यैकस्यानभ्युपगमादविशेषेणोत्तरक्षणवर्तिनस्सर्वस्य हेतुस्स्यात् ॥ १९ ॥
असति प्रतिज्ञोपरोधो यौगपद्यमन्यथा ॥ असत उत्पत्ती प्रतिज्ञाविरोधश्च भवताम् अधिपतिसहकार्यादीनां विज्ञानोत्पत्तिहेतुत्वप्रतिज्ञानात् । अथैतत्परिजिहीर्षया पूर्वी घटक्षणस्तिष्ठतीत्युच्येत तदा युगवद्भक्षणद्वयोपलब्धिप्रसङ्गः नचोपलभ्यते ; उपरोधः विरोधः ॥ २० ॥
1
;
तो निरन्वयविनाशोऽपि न सम्भवतीत्याहप्रतिसङ्ख्याप्रतिसङ्ख्यानिरोधाप्राप्तिरविच्छेदात् ॥ प्रतिसङ्ख्या प्र तिसङ्गयानिरोधाप्राप्तिः स्थूलसूक्ष्मविनाशयोरप्राप्तिरित्यर्थः स्थूलविनाशः मुद्गराभिघाताद्यनन्तरभाव्युपलब्धियोग्यः; सूक्ष्मस्तु प्रतिक्षणभाव्युपलब्ध्यनईः । तौ निरन्वय न भवतः, उत्पत्तिविनाशधर्मभागिनो द्रव्यस्याविच्छेदात्; १"तदनन्यत्वम्" इति सत्कार्यवादस्योपपादितत्वादित्यभिप्रायः । घटादौ कपालादिरूपrderer निरन्वयविनाशादर्शनात्प्रदीपनिर्वाणेऽपि सूक्ष्मावस्था प्राप्तिरित्यविरोधः ॥ २१ ॥
उभयधा च दोषात् || उत्पन्नस्य तुच्छतापत्तौ, तुच्छादुत्पत्तौ च, इत्युभयप्रकारे च दोषापत्तेः ते न सम्भवतः ; उत्पन्नस्य तुच्छतापत्तौ हि पश्वान्तच्छादुत्पद्यमानं जगत्तुच्छात्मकमेव स्यात्; मृत्सुवर्णादेरुत्पद्यमानमृत्सु
१. शारी. २-१-१५॥
For Private And Personal Use Only