________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वेदान्तदीपे
[म.२. उदासीनानामपि चैवं सिदिः ॥ क्षणिकत्वाभ्युपगमे अनुष्ठातुरन्यत्वात् फलिनां निष्प्रयत्नानामपि सर्वार्थसिद्धिस्स्यात् ॥ २६ ॥
इति वेदान्तसारे समुदायाधिकरणम् ॥ ३ ॥
वेदान्तदीपे-समुदाय उभयहेतुकेऽपि तदप्राप्तिः। सौगताश्चतुर्विधाः-प्रत्यक्षसिद्धस्थूलद्रव्यवादिनः केचिद्वैभाषिकाः ; भन्ये विज्ञानानुमेय स्थूलद्रव्यवादिनः , तेच सौत्रान्तिकाः; अपरे निरालम्बनविज्ञानमात्रसद्भावं वदन्ति योगाचाराः; त्रयोऽप्येते स्वाभ्युपगतषस्तुनः क्षणिकत्वं वदन्ति ; भन्ये तु सर्वशून्यवादिनो माध्यमिकाः; तत्राद्ययोर्बाह्यसद्भावमभ्युपगच्छतोः जगदुत्पत्तिप्रकारः लोकव्यवहारश्च सूपपादः, उत दुरुपपाद इति संशवः सूपपाद इति पूर्वःपक्षः तथाहि-पार्थिवाप्यतैजसवायवीया गन्धादियुक्ताः परमाणवो हि पृथिन्धादिरूपेण संहता भवन्ति ; भूतेभ्यश्च शरीरेन्द्रियविषयलक्षणसङ्घाताः; तत्र आन्तरः विज्ञानसन्तानो ग्राहकाभिमानारूढः आत्मत्वेनावतिष्ठते ; एषु क्षणिकेष्वपि स्थिरत्वादिगोचरबुद्ध्याख्याविद्यया सर्वमुपपद्यत इति जगदुत्पत्तिर्लोकव्यवहारश्च युज्यते । राद्धान्तस्तु-क्षणध्वंसिनः परमाणवः कदा संहतो व्याप्रियन्ते, कदा संहन्यन्ते, संहतो व्यापृताः तस्मिन्नेव क्षणे विनष्टाश्चेत्-के पुनः संहन्यन्ते, का विज्ञानात्मा कदा कं विषयं स्पृशति, कम्य कदाकं जानाति; कश्च कदा कमर्थमुपादत्ते; स्प्रष्टा नष्टः,स्पृष्टं च नष्टम् बेदिता नष्टः, वेद्यंच नष्टम् कथमन्येन स्पृष्टमन्यो विजानाति, कथंवाऽन्येन विदितमन्य उपादत्ते, सन्तानैकत्वे सिद्धेऽपि सन्तानिभ्यस्सन्तानस्य परमार्थतः वस्त्वन्तरत्वानभ्युपगमात् ; सन्तानैक्यमपारमार्थिकमकिञ्चित्करम् ; स्थिरत्वाद्यविद्ययापि सङ्घातोत्पत्तिर्न सम्भवति ; नहि शुक्तिकादिषु रजताविद्यया रजताद्युत्पत्तिसम्भवः, विदुषश्च पूर्वस्य नष्ठत्वेन उत्तरेणाविदुषा पूर्वविनष्टेन विदुषाऽनुसंहितार्थोपादानं न सम्भवति ; संस्काराश्रयत्वेन चैकोऽर्थः स्थिरो नाभ्युपगम्यते ; अतो जगदुत्पत्तिर्लोकव्यवहारश्च दुरुपपाद एव । सूत्रार्थस्तुसमुदाय उभयहेतुकेऽपि तदप्राप्तिः--उभयहेतुकेऽपि समुदाये समुदायित्वाप्राप्तिः ; परमाणुहेतुकः पृथिव्यादिसमुदायः पृथिव्यादिहेतुकः शरीरोन्द्रियसमुदायः--इत्युभयहेतुकोऽपि समुदायः क्षणिकत्वाभ्युपगमादुक्तेन न्यायेन न सिव्यतीत्यर्थः ॥१७॥
For Private And Personal Use Only