________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पा. २.]
समुदायाधिकरणम् तौ व्याप्रियमाणाः परमाणवः पृथिव्यादयश्च तदानीमेव नष्टाश्चेत्-के समुदायिरूपेण संहन्यन्ते ॥१७॥
इतरेतरप्रत्ययत्वादुपपन्नमितिचेन्न सङ्घातभावानिमित्तत्वात् ॥ अस्थिरेषु स्थिरत्वबुद्धिरूपाविद्यारागद्वेषादिपरम्परया अन्योन्यकारणत्वात्सर्वकारणत्वमुपपन्नमितिचेत्–न, अविद्यायास्सङ्घातभावानिमित्तत्वात् । नहि शुक्तिकादिषु रजतादिबुद्धिरूपाविद्यया शुक्तिकादिर्वस्तुतो रजतादिकार्यङ्करोति। अत्र विदुषस्तदानीमेव नष्टत्वादविद्यानिमित्तरागादयोऽपि न सम्भवन्ति॥ १८॥
उत्तरोत्पादे च पूर्वनिरोधात् ॥ उत्तरघटक्षणोत्पत्तौ पूर्वघटक्षणस्यापि नष्टत्वेनाभावस्यैवोत्पादकत्वाविशेषेण सर्वदोत्पत्तिश्च स्यात् ॥ १९ ॥
___ असति प्रतिज्ञोपरोधो योगपद्यमन्यथा।। १असत उत्पत्तावधिपतिसहकार्यादीनां शानहेतुत्वप्रतिज्ञाविरोधश्च । तस्यापि स्थित्यभ्युपगमे युगपद्धटद्वयोपलब्धिप्रसक्तिः, अस्थितौ च संप्रयोगज्ञानापत्तेः योगपद्यम् ॥ २० ॥
प्रतिसङ्ख्याप्रतिसङ्ख्यानिरोधाप्राप्तिरविच्छेदात् ॥ निरोधः निरन्धयविनाशः, स स्स्थूलः सूक्ष्मश्च न सम्भवति, कपालादिभावरूपावस्थाप्राप्ते रेव विनाशशब्दाभिधेयत्वात् , सतो द्रव्यस्य अविच्छेदात् ॥ २१ ॥
उभयधा च दोषात् ।। उत्पन्नस्य तुच्छतापत्तौ तुच्छादुत्पत्तौ चाभावादुत्पत्त्यसम्भवादभावात्मककार्यापत्तिरूपदोषात्तुच्छत्वासिद्धिः ॥२२॥
आकाशेचाविशेषात् ॥ आकाशे च न तुच्छत्वम् , अबाधितप्रतीत्यविशेषात् । प्रतीयते ह्याकाशः श्येनादिपतनदेशत्वेन ॥ २३ ॥
अनुस्मृतेश्च ।। प्रत्यभिज्ञानाच न क्षणिकत्वसिद्धिः। तदेवेदम्' इति हि सामानाधिकरण्येनातीतवर्तमानदेशकालविशिष्टं वस्तु एकमिति प्रतीयते; अस्याश्च सामग्री पूर्वानुभवजनितसंस्कारवतः पुरुषस्येन्द्रियसंप्रयोगः ॥ २४ ॥
नासतोऽदृष्टत्वात् ।। 'शानाकारवैचित्रवेण ज्ञाने स्वाकारं समर्प्य वि. नष्टमप्यशेमनुमिनोति' इति वादश्च न सम्भवति, असतो विनष्टस्य धर्मिणो धर्मसक्रमणस्यादृष्टत्वात् । (शाने नीलाद्याकार उपलभ्यते; स विनष्टस्यासतोऽर्थस्याकारो भवितुनाहति; कुतः ? अदृष्टत्वात् । न खलु धर्मिणि विनष्टे तद्धर्म स्यार्थान्तरे सङ्कमणं दृष्टम् ) ॥ २५ ॥
१, असतिहेतावुत्पत्ता. पा॥-() कुण्डलितग्रन्थः केषुचित्कोशेषु न दृश्यते ॥
*13
For Private And Personal Use Only