________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वेदान्तसारे
[अ. २. प्रत्यवतिष्ठते-न ज्ञानकालेऽनवस्थानमर्थस्य ज्ञानाविषयत्वहेतुः ; ज्ञानोत्पत्तिहेतुत्वमेव हि ज्ञानविषयत्वम् । नचैतावता चक्षुरादेः ज्ञानविषयत्वप्रसङ्गः, स्वाकारसमर्पणेन ज्ञानहेतोरेव ज्ञानविषयत्वाभ्युपगमात्। ज्ञाने स्वाकारं समर्प्य विनष्टोऽप्यों ज्ञानगतेन नीलाद्याकारणानुमीयते।नच पूर्वपूवज्ञानेनोत्तरोत्तरज्ञानाकारसिद्धिः,नीलज्ञानसन्ततौ पीतज्ञानानुत्पत्तिप्रस ङ्गात्। अतोऽर्थकृतमेव ज्ञानवैचित्र्यम्-इति।अत्रोच्यते-नासतो दृष्टत्वात-इति, योऽयं ज्ञाने नीलादिराकार उपलभ्यते,स विनष्टस्यासतोऽर्थस्याकारो भवितुं नाहति; कुतः? अदृष्टत्वात्-न खलु धर्मिणि विनष्टे तद्धर्मभ्यार्थान्तरे सङ्क्रमणं दृष्टम् । प्रतिबिम्बादिकमपि स्थिरस्यैव भवति । तत्रापि न धर्ममात्रस्य । अतोऽर्थवैचित्र्यकृतं ज्ञानवैचित्र्यमर्थस्य ज्ञानकालेऽवस्थानादेव भ. वति ॥ २५ ॥
पुनरपि साधारणं दूषणमाहउदासीनानामपि चैवं सिद्धिः । २।२।२६ ॥
एवं क्षणिकत्वासदुत्पत्त्यहेतु कविनाशाद्यभ्युपगमे उदासीनानाम् अनुयुञ्जानानामपि सर्वार्थसिद्धिस्स्यात् इष्टप्राप्तिरनिष्टनिवृत्तिवा प्रयत्ना. दिभिस्साध्यते ; क्षणध्वंसे हि सर्वेषां भावानां पूर्वपूर्व वस्तु तद्गतो वा वि. शेषः संस्कारादिको विद्यादिर्वा उत्तरत्र न कश्चिदनुवर्तत इति प्रयत्नादिसा. ध्यं न किश्चिदस्ति। एवं सत्यहेतुसाध्यत्वात्सर्वसिद्धीनामुदासीनानामप्यैः हिकामुष्मिकफलं मोक्षश्च सिद्ध्येत् ॥ २६ ।।
इति श्रीशारीरकमीमांसाभाष्ये समुदायाधिकरणं समाप्तम् ॥ ३ ॥
वेदान्तसारे-समुदाय उभयहेतुकेऽपि तदप्राप्तिः ॥ अणुहेतुके पृ थिव्यादिसमुदाये, पृथिव्यदिहेतुके शरीरोन्द्रियसमुदाये च सुगताभ्युपगते त दभ्युपगमप्रकारेणैव समुदायासिद्धिः; क्षणिकत्वं हि तैरभ्युपगम्यते ; संहत
For Private And Personal Use Only