________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पा. २. ]
समुदायाधिकरणम्.
पपस्यादिभिः पूर्वमेव निरस्तम्। किञ्च प्रत्यक्षगम्या वर्तमानस्यावर्तमानाव्यावृत्तिर्न वर्तमानस्य वस्त्वन्तरत्वमवगमयतिः अपितु वर्तमानकालयोगितामात्रम् । नच तावता वस्त्वन्तरत्वं सिध्यति, तस्यैव कालान्तरयोगसम्भवात् । यत्तु सत्त्वादर्थक्रियाकारित्वाच्चेति क्षणिकत्वे हेतुद्वयमुक्तम्, तदभिमतविपरीतसाधनत्वाद्विरुद्धम् । सत्त्वादर्थक्रियाकारित्वाद्वा घटादि स्थास्तु, यदस्थास्नु तदसदनर्थक्रियाकारि व, यथा शशविषाणमित्यपि हि वक्तुं शक्यम्। किश्व अर्थक्रियाकारित्वमक्षणिकत्वमेव साधयेत् | क्षणध्वंसिनो हि व्यापारासम्भवादर्थक्रियाकारित्वं न सम्भवतीत्युक्तम्। तथाऽन्त्यघटक्षणस्य हेतुतो नाशदर्शनादितरेऽपि घटक्षणा हेत्वपेक्षविनाशास्स्युरित्यामुद्गरादिहेतूपनिपातात् स्थास्नुत्वमेव । नच वाच्यं न मुद्गरादयो विनाशहेतवः, अपितु कपालादिविसदृशसन्तानोत्पत्तिहेतवइति, कपालत्वावस्थापत्तिरेव घटादीनां विनाश इत्युपपादितत्वात् । कपालोत्पत्तिव्यतिरिक्तत्वाभ्युपगमेsपि विनाशस्य विनाशहेतुत्वमेव मुद्गरादेरानन्तर्याद्युक्तम् । अतः प्रत्यभिज्ञया स्थिरत्वमवगम्यमानं न केनापि प्रकारेणापहोतुं शक्यम् । पूर्वापरकालसम्बन्ध्यर्थैक्यविषयायाः प्रत्यभिज्ञाया अन्यविषयत्वं ब्रुवन्नीलादिज्ञानानामपि नीलादेरर्थान्तरविषयत्वं ब्रूयात् । किश्च प्रमातृप्रमेययोः क्षणिकत्वं वदद्भिर्व्याप्त्यवधारणतत्स्मरणपूर्वकानुमानाभ्युपगमोऽपि दुश्शकः । तथा इदं क्षणिकमित्यादिप्रतिज्ञापूर्वक हेतूपन्यासादिकमपि नोपपद्यते भवताम्, प्रतिज्ञोपक्रमक्षण एवं वक्तुर्विनष्टत्वात् नान्येनोपक्रान्तमजानद्भिरन्यैसमापयितुं शक्यम् || २४ ॥
;
नासतोऽदृष्टत्वात् । २ । २ । २५ ॥
For Private And Personal Use Only
९५
एवं तावद्वैभाषिकसौत्रान्तिकयोर्बाह्यार्थास्तित्ववादिनोस्साधारणानि दूषणान्युक्तानि ; तत्र यदुक्तं - सम्प्रयुक्तस्यार्थस्य ज्ञानोत्पत्तिकालेऽनवस्थितत्वान कस्यचिदर्थस्य ज्ञानविषयत्वं सम्भवतीति ; तत्र सौत्रान्तिकः