SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीशारीरकमीमांसाभाये म. २. वक्तुं शक्यम्, विकल्पासहत्वात् । पृथिन्यादेः प्रागभावः, प्रध्वंसाभावः, इतरेतराभावः, अत्यन्ताभावो वा आकाशः; सर्वथाऽप्याकाशप्रतीत्यनुपपत्तिस्यात्।प्रागभावप्रध्वंसाभावयोराकाशत्वे पृथिव्यादिषु वर्तमानेषु आ. काशप्रतीत्ययोगात् निराकाशं जगत्स्यात्। इतरेतराभावस्याकाशत्वेऽपि इ. तरेतराभावस्य तत्तद्वस्तुगतत्वेन तेषामन्तराले आकाशप्रतीतिर्न स्यात्। अ. त्यन्ताभावस्तु पृथिव्यादीनां न सम्भवति । अभावस्य विद्यमानपदार्थावस्थाविशेषत्वोपपादनाचाकाशस्याभावरूपत्वेऽपि न निरुपाख्यत्वम्। अण्डान्तर्वर्तिनश्चाकाशस्य त्रिवृत्करणोपदेशप्रदर्शितपञ्चीकरणेन रूपवत्त्वाचाक्षुपत्वेऽप्यविरोधः ॥ २३ ॥ अनुस्मृतेश्च २।२।२४ ॥ पूर्वप्रस्तुतं वस्तुनः स्थिरत्वमेवोपपाद्यते–अनुस्मरण-पूर्वानुभूतबस्तुविषयं ज्ञानम् , प्रत्यभिज्ञानमित्यर्थः । तदेवेदमिति सर्व वस्तुजातमतीतकालानुभूतं प्रत्यभिज्ञायते।नच भवद्भिालादिष्विव सादृश्यनिबन्धनोऽयमेकत्वव्यामोह इति वक्तुं शक्यम्, व्यामुद्यतो ज्ञातुरेकस्यानभ्युपगमात्। नह्यन्यानुभूतेनैकत्वं सादृश्यं वा स्वानुभूतस्यान्योऽनुसन्धत्ते । अतो भिन्नकालवस्त्वाश्रयसादृश्यानुभवनिबन्धनमेकत्वव्यामोहं वदद्भिातुरेकत्वमवश्याश्रयणीयम्। नच ज्ञेयेष्वपि घटादिषु ज्वालादिष्विव भेदसाधनप्रमाणमुपलभामहे; येन सादृश्यनिवन्धनां प्रत्यभिज्ञा कल्पयेमायदपि चेदमुच्यतेप्रत्यक्षानुमानाभ्यां घटादेः क्षणिकत्वं सिध्यति प्रत्यक्षं तावद्वर्तमानार्थविषयमवर्तमानाद्वस्तुनो व्यावृत्तं स्वविषयमवगमयति, नीलमिव पीतात। एवंच भूतभविष्यद्भयां वर्तमानस्य वस्त्वन्तरत्वमवगतं भवति । अनुमानमपिअर्थक्रियाकारित्वात्सत्त्वाच्च घटादिः क्षणिकः,यदक्षणिकं शशविषाणादि, तदनर्थक्रियाकार्यसञ्च। तथा अन्त्यघटक्षणसत्त्वात्पूर्वघटक्षणसत्त्वानि विनाशीनि,घटक्षणसत्त्वात्,अन्त्यघटक्षणसत्त्ववत्-इति तच्च कार्यकारणभावा For Private And Personal Use Only
SR No.020697
Book TitleSharirik Mimansa Bhashye Part 02
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1910
Total Pages595
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy