SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पा. २. ] समुदायाधिकरणम्. नाशौ नामावस्थान्तरापत्तिरेव ; अवस्थायोगि तु द्रव्यमेकमेव स्थिरमिति कारणादनन्यत्वं कार्यस्योपपादयद्भिरस्माभिः । “तदनन्यत्वम्" इत्यत्र प्रतिपादितम् । निर्वाणस्य दीपस्य निरन्वयविनाशदर्शनादन्यत्रापि विनाशो निरन्योऽनुमीयत इति चेन्न, घटशरावादौ मृदादिद्रव्यानुवृत्त्युपलब्ध्या स तो द्रव्यस्यावस्थान्तरापत्तिरेव विनाश इति निश्चिते सति प्रदीपादौ सूक्ष्मदशापस्याऽप्यनुपलम्भोपपत्तेः तत्राप्यवस्थान्तरापत्तिकल्पनस्यैव युतत्वात् ।। २१ ।। उभयधा च दोषात् । २ । २ । २२ ॥ क्षणिकत्ववादिभिरभ्युपेता तुच्छादुत्पत्तिः उत्पन्नस्य तुच्छतापतिश्च न सम्भवतीत्युक्तम् ; तदुभयप्रकाराभ्युपगतौ दोषश्च भवति । तुच्छादुत्पतुच्छात्मकमेव कार्य स्यात् ; यद्धि यस्मादुत्पद्यते, तत्तदात्मकं दृष्टम् ; यथा मृत्सुवर्णादेरुत्पन्नं मणिकमकुटादि मृत्सुवर्णाद्यात्मकं दृष्टम् ; नच जगतुच्छात्मकं भवद्भिरभ्युपगम्यतेः नच प्रतीयते। सतो निरन्वयविनाशे सत्येकक्षणादूर्ध्वं कृत्स्नस्य जगतस्तुच्छतापत्तिरेव स्यात्; पश्चात्तुच्छाज्जगदुत्पत्तौ अनन्तरोक्तं तुच्छात्मकत्वमेव स्यात् । अत उभयधापि दोषान भवदुक्तप्रकारावुत्पत्तिनिरोधौ ॥ २२ ॥ आकाशे चाविशेषात् । २ । २ । २३ ॥ बाह्याभ्यन्तरवस्तुनः स्थिरत्वप्रतिपादनाय प्रतिसङ्ख्यामतिसङ्ख्यानिरोधयोस्तुच्छरूपता निराकृता; तत्प्रसङ्गेन ताभ्यां सह तुच्छत्वेन सौगतैः परिगणितस्याकाशस्यापि तुच्छता प्रतिक्षिप्यते । आकाशे च निरुपाख्यता न युक्ता, भावरूपत्वेनाभ्युपगतपृथिव्यादिवदाकाशस्यापि अबाधितप्रतीतिसिद्धत्वाविशेषात् । प्रतीयते ह्याकाशः 'अत्र श्येनः पतति, अन गृध्रः' इति श्येनादिपतनदेशत्वेन । नच पृथिव्याद्यभावमात्रमाकाश इति १. शा. २. १-१५ ॥ For Private And Personal Use Only
SR No.020697
Book TitleSharirik Mimansa Bhashye Part 02
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1910
Total Pages595
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy