________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
म. २.
श्रीशारीरकमीमांसाभाष्ये कुख्यपाषाणादीनां बैलोक्यवर्तिनां हेतुस्स्यात्, अथैकजातीयस्यैव पूर्वक्षणवर्तिनो हेतुत्वमिष्यते, तथापि सर्वदेशवर्तिनामुत्तरक्षणभाविनां घटानामेक एव पूर्वक्षणवर्तिघटो हेतुस्स्यात् । अथैकस्यैव हेतुरेक इति मनुषे, तथापि कस्यैकस्य को हेतुरिति न ज्ञायते; अथ यस्मिन् देशे यो घटक्षणः स्थितः,तद्देशसम्बन्धिन एवोत्तरक्षणस्य स हेतुरिति,किं देशस्य स्थिरत्वं मनुषे किश्च चक्षुरादिसम्पयुक्तस्यार्थस्य ज्ञानोत्पत्तिकालेऽनवस्थितत्वान्न कस्यचिदर्थस्य ज्ञानविषयत्वं सम्भवति ॥ १९ ॥ असति प्रतिज्ञोपरोधो योगपद्यमन्यथा२।२।२०॥ ____ असत्यपि हेतो कार्यमुत्पद्यते चेत्-सर्व सर्वत्र सर्वदोत्पद्यतेत्युक्तम्, न केवलमुत्पत्तिविरोध एव, प्रतिज्ञा च भवतामुपरुध्येत, अधिपतिसहकालिम्बनसमनन्तरप्रत्ययाश्चत्वारो विज्ञानोत्पत्ती हेतव इति वः प्रतिज्ञा अधिपतिः इन्द्रियम् । अथ प्रतिज्ञानुपरोधाय घटक्षणे स्थित एव घटक्षणान्तरोत्पत्तिरिष्यते, तथाच सति द्वयोः कार्यकारणयोर्घटक्षणयोौंगपद्येनोपलब्धिः प्रसज्येत, नच तथोपलभ्यत, क्षणिकत्वप्रतिज्ञा चैवं हीयेताक्षणिकत्वं स्थितमेवेति चेत्-इन्द्रियसंप्रयोगज्ञानयोयौंगपर्य प्रसज्येत।। प्रतिसंख्याप्रतिसंख्यानिरोधाप्राप्तिरवि
च्छेदात् । २।२।२१॥ एवं तावदसत उत्पत्तिनिरस्ता सतो निरन्वयविनाशोऽपि नोपपद्यत इत्युच्यते; क्षणिकत्ववादिभिर्मुद्राभिघातायनन्तरभावितयोपलब्धियोग्यस्सदृशसन्तानावसानरूपः स्थूलो यः, सदृशसन्ताने प्रतिक्षणमावी चोपलब्ध्यनर्हस्सूक्ष्मश्च यो निरन्वयो विनाशः प्रतिसङ्ख्यानिरोधापतिसङ्खयानिरोधशब्दाभ्यामभिधीयेते, तौ न सम्भवत इत्यर्थः। कुतः१ अविच्छेदात-सतो निरन्वयविच्छेदासम्भवात् । असम्भवश्च सत उत्पत्तिवि
For Private And Personal Use Only