SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पा. २.] समुदायाधिकरणम् इतरेतरप्रत्ययत्वादुपपन्नमितिचेन्न संघातभावा निमित्तत्वात् । २।२।१८॥ अविद्यादीनामितरेतरहेतुत्वेनोपपन्नं सातभावादिकमितिचेतः एतदुक्तं भवति–यद्यपि क्षणिकास्सर्वे भावाः,तथाऽप्यविद्ययैतत्सर्वमुपपद्यते; अविद्या हि नाम विपरीतबुद्धिः क्षणिकादिषु स्थिरत्वादिगोचरा तया संस्काराख्याः रागद्वेषादयो जायन्ते ; ततश्चित्ताभिज्वलनरूपं विज्ञानम् ; ततश्च नामाख्याश्चित्तचैत्ताः पृथिव्यादिकं न रूपिद्रव्यम् । ततष्पडायतनाख्यमिन्द्रियषट्कम् । ततः स्पर्शाख्यः कायः; ततो वेदनादयः । ततश्च पुनरप्यविद्यादयो यथोक्ता इत्यनादिरियमविद्यादिकाऽन्योन्यमूला चक्रपरिवृत्तिः । एतच्च सर्व पृथिव्यादिभूतभौतिकसङ्घातमन्तरेण नोपपद्यते । अतस्सवातभावादिकमुपपन्नम् इति।तत्रोत्तरं न सङ्घातभावानिमित्तत्वात्-इति । नैतदुपपद्यते-एषामविद्यादीनां पृथिव्यादिभूतभौतिकसङ्घातभावं प्रत्यनिमित्तत्वात् । न खल्वस्थिरादिषु स्थिरत्वादिबुद्ध्यात्मिका:विद्या तनिमित्ता रागद्वेषादयो वाऽर्थान्तरस्य क्षणिकस्य संहतिहेतुतां प्रतिपद्यन्ते ; शुक्तिकारजतादिबुद्धिर्हि न शुक्क्याद्यर्थसंहतिहेतुर्भवति; किंच यस्य क्षणिक स्थिरत्वबुद्धिः, स तदैव नष्ट इति कस्य रागादय उत्पद्यन्ते ; सं. स्काराश्रयं स्थिरमेकं द्रव्यमनभ्युपगच्छतां संस्कारानुत्तिरपि न शक्या कल्पयितुम् ॥ १८॥ उत्तरोत्पादे च पूर्वनिरोधात् । २।२। १९॥ इतश्च क्षणिकत्वपक्षे जगदुत्पत्तिर्नोपपद्यते, उत्तरक्षणोत्पत्तिवेलायां पूर्वक्षणस्य विनष्टत्वात् , तस्योत्तरक्षणं प्रति हेतुत्वानुपपत्तेः । अभावस्य हेतुत्वे सर्व सर्वत्र सर्वदोत्पद्येत; अथ पूर्वक्षणवर्तित्वमेव हेतुत्वमित्युच्यते, एवं तर्हि कश्चिदेव घटक्षणस्तदुत्तरकालभाविनां सर्वेषामेव गोमहिषाश्व For Private And Personal Use Only
SR No.020697
Book TitleSharirik Mimansa Bhashye Part 02
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1910
Total Pages595
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy