________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पा.१.]
जिज्ञासाधिकरणम् . नुमानेनापि सिध्यति-विवादाध्यासितं प्रमाणज्ञानं स्वप्रागभावव्यतिरिक्तस्वविषयावरणस्वनिवर्त्यस्वदेशगतवस्त्वन्तरपूर्वकम् । अप्रकाशितार्थप्रकाशकत्वात् ; अन्धकारे प्रथमोत्पन्नप्रदीपप्रभावत्-इति ॥
आलोकाभावमात्रं वा रूपदर्शनाभावमा वा तमो न द्रव्यान्रतम् , तत्कथं भावरूपाज्ञानसाधने निदर्शनतयोपन्यस्यत इति चेत् : उच्यते -बहुलत्वविरलत्वाद्यवस्थायोगेन रूपवत्तया चोपलब्धेद्रव्यान्तरमेव तम इति निरवद्यम्-इति ॥
अत्रोच्यते-"अहमज्ञो मामन्यं च न जानामि"इत्यत्रोपपत्तिसहितेन केवलेन च प्रत्यक्षेण न भावरूपमज्ञानं प्रतीयते। यस्तु ज्ञानप्रागभावविषयत्वे विरोध उक्तः; स हि भावरूपाज्ञानेऽपि तुल्यः । विषयत्वेनाश्रयत्वेन चाज्ञानस्य व्यावर्तकतया प्रत्यगर्थः प्रतिपन्नो वा, अप्रतिपन्नो वा। प्रतिपन्नश्चेत तत्स्वरूपज्ञाननिवर्त्य तदज्ञानं तस्मिन् प्रतिपन्ने कथमिव तिष्ठति । अप्रतिपन्नश्चेद्वयावर्तकाश्रयविषयज्ञानशून्यमज्ञानं कथमनुभूयेत।।
अथ-विशदस्वरूपावभासोऽज्ञानविरोधी; अविशदस्वरूपं तु प्रतीयत इत्याश्रयविषयज्ञाने सत्यपि नाज्ञानानुभवविरोधः इति । हन्त तर्हि ज्ञानप्रागभावोऽपि विशदखरूपविषयः । आश्रयप्रतियोगिज्ञानं तु अविशदखरूपविषयमिति न कश्चिद्विशेषोऽन्यत्राभिनिवेशात् । भावरूपस्याज्ञानस्यापि ह्यज्ञानमिति सिध्यतः प्रागभावसिद्धाविव सापेक्षत्वमस्त्येव । तथा हि अज्ञानमिति ज्ञानाभावस्तदन्यस्तद्विरोधी वा । त्रयाणामपि तत्स्वरूपज्ञानापेक्षाऽवश्याश्रयणीया । यद्यपि तमस्वरूपप्रतिपत्तौ प्रकाशापेक्षा न विद्यते; तथाऽपि प्रकाशविरोधीत्यनेनाकारेण प्रतिपत्तौ प्रकाशप्रतिपत्यपेक्षाऽस्त्येव । भवदभिमताज्ञानं न कदाचित्स्वरूपेण सिध्यति अपित्वज्ञानमित्येव । तथा सति ज्ञानाभाववत्तदपेक्षत्वं
१. द्रव्यमिति. पा.
For Private And Personal Use Only