________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७६
शारीरकमीमांसाभाष्ये ते।कारणाज्ञानविषयं प्रत्यक्षं तावत् "अहमज्ञो मामन्यं च न जानामि"इत्यपरोक्षावभासः। अयं तु न ज्ञानप्रागभावविषयः सहिषष्ठप्रमाणगोचरः अयन्तु अहं सुखीतिवदपरोक्षः।अभावस्य प्रत्यक्षत्वाभ्युपगमेऽप्ययमनुभवो नात्मज्ञानाभावविषयः; अनुभववेलायामपि ज्ञानस्य विद्यमानत्वात् । अविद्यमानत्वे ज्ञानाभावप्रतीत्यनुपपत्तेश्च ॥
एतदुक्तं भवति ---- अहमज्ञ इत्यस्मिन्ननुभवे अहमित्यात्मनोऽभावधर्मितया ज्ञानस्य च प्रतियोगितयाऽवगतिरस्ति वा, न वा । अस्ति चेद्विरोधादेव न ज्ञानानुभवसम्भवः । नो चेद्धर्मिप्रतियोगिज्ञानसव्यपेक्षो ज्ञानाभावानुभवस्सुतरां न संभवति । ज्ञानामावस्यानुमेयत्वे अभावाख्यप्रमाणविषयत्वे चेयमनुपपत्तिस्समाना । अस्याज्ञानस्य भावरूपत्वे धर्मिप्रतियोगिज्ञानसद्भावेऽपि विरोधाभावादयमनुभवो भावरूपाज्ञानविषय एवाभ्युपगन्तव्यः इतिीननु च-भावरूपमप्यज्ञानं वस्तुयाथात्म्यावभासरूपेण साक्षिचैतन्येन विरुध्यते । मैवम्—साक्षिचैतन्यं न वस्तुयाथात्म्यविषयम् , अपि तु अज्ञानविषयम् । अन्यथा मिथ्यार्थावभासानुपपत्तेः । न ह्यज्ञानविषयेण ज्ञानेनाज्ञानं निवर्त्यत इति न विरोधः । ननु चेदं भावरूपमप्यज्ञानं विषयविशेषव्यावृत्तमेव साक्षिचैतन्यस्य विषयो भवति । स विषयः प्रमाणानधीनसिद्धिरिति कथमिव साक्षिचैतन्येनास्मदर्थव्यावृत्तमज्ञानं विषयीक्रियते । नैष दोषः; सर्वमेव वस्तुजातं ज्ञाततया अज्ञाततया वा साक्षिचैतन्यस्य विषयभूतम् । तत्र जडत्वेन ज्ञाततया सिध्यत एवं प्रमाणव्यवधानापेक्षा । अजडस्य तु प्रत्यग्वस्तुनस्स्वयं सिध्यतो न प्रमाणव्यवधानापेक्षेति'सदैवाज्ञानस्य व्यावर्तकत्वेनावभासो युज्यते।तस्मान्यायोपहितेन प्रत्यक्षेण भावरूपमेवाज्ञानं प्रतीयते । तदिदं भावरूपमज्ञानम
१. सदैवाशानव्यावर्तकत्वेनेति पा.
For Private And Personal Use Only