________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पा. १.]
जिज्ञासाधिकरणम्.
७५
परमार्थभूतः ? उता परमार्थभूत इति विवेचनीयम् । न तावत्परमार्थः, अनभ्युपगमात् । नाप्यपरमार्थः, तथा सति हि द्रष्टृत्वेन वा दृश्यत्वेन वा दृशित्वेन वाऽभ्युपगमनीयः । न तावदृशि:, हरिस्वरूपभेदानभ्युपगमात्ः भ्रमाधिष्ठानभूतायास्तु साक्षादृशेर्माध्यामिक पक्षप्रसङ्गेनापारमार्थ्यानभ्युपगमाच्च । द्रष्टृदृश्ययोस्तदवच्छिन्नाया दृशेश्व काल्पनिकत्वेन मूलदोषान्तरापेक्षयाऽनवस्था स्यात् । अथैतत्परिजिहीर्षया परमार्थसत्यनुभूतिरेव ब्रह्मरूपा दोष इति चेत्; ब्रह्मैव चेद्दोषः : प्रपञ्चदर्शनस्यैव तन्मूलं स्यात् । किं प्रपञ्चतुल्याविद्यान्तरपरिकल्पनेन ? ब्रह्मणो दोषत्वे सति तस्य नित्यत्वेनानिर्मोक्षश्च स्यात् । अतो यावद्ब्रह्मव्यतिरिक्तपारमार्थिकदोषानभ्युपगमः न तावद्भान्तिरुपपादिता भवति ।।
अनिर्वचनीयत्वं च किमभिप्रेतम् । सदसद्विलक्षणत्वमिति चेत् ; तथाविधस्य वस्तुनः प्रमाणशून्यत्वेन अनिर्वचनीयतैव स्यात् । एतदुक्तं भवति — सर्व हि वस्तुजातं प्रतीतिव्यवस्थाप्यम् । सर्वा च प्रतीतिस्सदसदाकारा सदसदाकारायास्तु प्रतीतेस्सदसद्विलक्षणं विषय इत्यभ्युपगम्यमाने सर्व सर्वप्रतीतेर्विषयस्स्यात् — इति ।।
अथ स्यात् — वस्तुस्वरूपतिरोधानकरमान्तरबाह्यरूपविविधाध्यासोपादानं सदसदनिर्वचनीयमविद्याज्ञानादिपदवाच्यं वस्तुयाथात्म्यज्ञाननिवर्त्य ज्ञानप्रागभावातिरेकेण भावरूपमेव किं चिद्वस्तु प्रत्यक्षानुमानाभ्यां प्रतीयते । तदुपहितब्रह्मोपादानचाविकारे स्वप्रकाशचिन्मात्र वपुषि तेनैव तिरोहितस्वरूपे प्रत्यगात्मन्यहङ्कारज्ञानज्ञेयविभागरूपोऽध्यासः । तस्यैवावस्थाविशेषेणाध्यासरूपे जगति ज्ञानबाध्यसर्परजतादिवस्तुतत्तज्ज्ञानरूपाध्यासोऽपि जायते । कृत्स्नस्य मिथ्यारूपस्य तदुपादानत्वं च मिध्याभूतस्यार्थस्य मिथ्याभूतमेव कारणं भवितुमर्हतीति हेतुबलादवगम्य
१. पक्षसम्भवेनोत. पा.
For Private And Personal Use Only