SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शारीरकमीमांसाभाष्ये [अ. १. समानम् । ज्ञानप्रागभावस्तु भवताऽप्यभ्युपगम्यते । प्रतीयते चेत्युभयाभ्युपेतो ज्ञानप्रागभाव एव "अहमज्ञो मामन्यं च न जानामि" इत्यनुभूयत इत्यभ्युपगन्तव्यम् । नित्यमुक्तस्वप्रकाशचैतन्यैकस्वरूपस्य ब्रह्मणोऽज्ञानानुभवश्व न संभवतिः स्वानुभवस्वरूपत्वात् । स्वानुभवस्वरूपमपि तिरोहितस्वरूपमज्ञानमनुभवतीति चेत्, किमिदं तिरोहितस्वरूपत्वम् । अप्रकाशितस्वरूपत्वमिति चेत्, स्वानुभवस्वरूपस्य कथमप्रकाशितस्वरूपत्वम् । स्वानुभवस्वरूपस्याप्यन्यतोऽप्रकाशित स्वरूपत्वमापद्यतइति चेत्, एवं तर्हि प्रकाशाख्यधानभ्युपगमेन प्रकाशस्यैव स्वरूपत्वादन्यतस्स्वरूपनाश एव स्यादिति पूर्वमेवोक्तम् ॥ किंच- ब्रह्मस्वरूपतिरोधानहेतुभूतमेतदज्ञानं स्वयमनुभूतं सत् ब्रह्म तिरस्करोति । ब्रह्म तिरस्कृत्य स्वयं तदनुभवविषयो भवतीत्यन्योन्याश्रयणम् ॥ ___ अनुभूतमेव तिरस्करोतीति चेत्, यद्यतिरोहितस्वरूपमेव ब्रह्माज्ञानमनुभवति तदा तिरोधानकल्पना निष्पयोजना स्यात् अज्ञानस्वरूपकल्पना च । ब्रह्मणोऽज्ञानदर्शनवत् अज्ञानकार्यतयाऽभिमतप्रपञ्चदर्शनस्यापि सम्भवात्।किंच--ब्रह्मणोऽज्ञानानुभवः किं स्वतोऽन्यतो वा स्वतश्वेदज्ञानानुभवस्य स्वरूपप्रयुक्तत्वेनानिर्मोक्षस्स्यात् । अनुभूतिस्वरूपस्य ब्रह्मणोऽज्ञानानुभवस्वरूपत्वेन मिथ्यारजतबाधकज्ञानेन रजतानुभवस्या. पि निवृत्तिवन्निवर्तकज्ञानेनाज्ञानानुभूतिरूपब्रह्मस्वरूपनिवृत्तिर्वा। अन्यतचेतः किं तदन्यत्? अज्ञानान्तरमिति चेत् अनवस्था स्यात्। ब्रह्म तिरस्कृत्यैव स्वयमनुभव विषयो भवतीति चेत् ; तथा सतीदमज्ञानं काचादिवत् स्वसत्तया ब्रह्म तिरस्करोतीति ज्ञानबाध्यत्वमज्ञानस्य न स्यात् ॥ १. खरूपत्वमुपपद्यत इति पा. For Private And Personal Use Only
SR No.020696
Book TitleSharirik Mimansa Bhashye Part 01
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1909
Total Pages465
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy