________________
Shri Mahavir Jain Aradhana Kendra
७२
www.kobatirth.org
शारीरकमीमांसाभाष्ये
[अ. १.
देवादिभेदेऽपध्वस्ते नास्त्येवावरणो हि सः ।। " इति ॥ एतदेव विवृणोति “ विभेदजनकेऽज्ञाने नाशमात्यन्तिकं गते । आत्मनो ब्रह्मणो भेदमसन्तं कः करिष्यति " इति । विभेदः - विविधो भेदः - देवर्तिमनुष्य स्थावरात्मकः। यथोक्तं शौनकेनापि - १ " चतुर्विधोऽपि भेदोऽयं मिथ्याज्ञाननिबन्धनः" इति । आत्मनि ज्ञानरूपे देवादिरूपविविधभेदहेतुभूतकर्माख्याज्ञाने परब्रह्मध्यानेनात्यन्तिकनाशं गते सति हेत्वभावादसन्तं परस्मात् ब्रह्मण आत्मनो देवादिरूपभेदं कः करिष्यतीत्यर्थः । “अविद्या कर्मसंज्ञाऽन्या" इति ह्यत्रैवोक्तम् ॥
Acharya Shri Kailassagarsuri Gyanmandir
" क्षेत्रज्ञं चापि मां विद्धि" इत्यादिनाऽन्तर्यामिरूपेण सर्वस्याs - त्मतयैक्याभिधानम् । अन्यथा - “ क्षरस्सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते । उत्तमः पुरुषस्त्वन्यः " इत्यादिभिर्विरोधः । अन्तर्यामिरूपेण सर्वेषामात्मत्वं तत्रैव भगवताऽभिहितम् - २ " ईश्वरस्सर्वभूतानां हृदेशेऽर्जुन तिष्ठति " ३" सर्वस्य चाहं हृदि सन्निविष्टः " इति च । " अहमात्मा गुडाकेश सर्वभूताशयस्थितः" इति च तदेवोच्यते । भूतशब्दो ह्यात्मपर्यन्तदेहवचनः । यतस्सर्वेषामयमात्मा तत एव सर्वेषां तच्छरीरतया पृथगवस्थानं प्रतिषिध्यते " न तदस्ति विना यत्स्यात् " इति भगवद्विभूत्युपसंहारश्चायमिति तथैवाभ्युपगन्तव्यम् । तत इदमुच्यते
"
४ यद्यद्विभूतिमत्सत्त्वं श्रीमदूर्जितमेव वा । तत्तदेवावगच्छ त्वं मम तेजशसंभवम् " ॥
१. विष्णुधर्मे. १००. अ. २१. २. गी. १८ - अ.. ६१. - श्लो.
५" विष्टभ्याहमिदं कृत्स्नमेकांशेन स्थितो जगत् ॥” इति ॥ अतरशास्त्रेषु न निर्विशेषवस्तुप्रतिपादनमस्ति । नाप्यर्थजातस्य भ्रान्तत्वप्रतिपादनम् । नापि चिदचिदीश्वराणां स्वरूपभेदनिषेधः ॥
३. गी. १५. १५. लो.
४. ५. गी. १० - अ ४१, ४२- लो.
For Private And Personal Use Only