________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
पा. १.]
जिज्ञासाधिकरणम्
७१
क्तस्य निरस्ततत्कृतभेदस्य ज्ञानैकाकारतया ब्रह्मप्रकार तोच्यते । प्रकारैक्ये चतव्यवहारो मुख्य एव ; यथा सेयं गौरिति ॥
अत्रापि
Acharya Shri Kailassagarsuri Gyanmandir
१" विज्ञानं प्रापकं प्राप्ये परे ब्रह्मणि पार्थिव । प्रापणीयस्तथैवात्मा प्रक्षीणाशेषभावनः ।। " इति ॥
परब्रह्मध्यानादात्मा परब्रह्मवत् प्रक्षीणाशेषभावनः कर्मभावनाब्रह्मभावनोभयभावनेति भावनात्त्रयरहितः । प्रापणीय इत्यभिधाय२" क्षेत्रज्ञः करणी ज्ञानं करणं तस्य वै द्विज । निष्पाद्य मुक्तिकार्ये हि कृतकृत्यं निवर्तयेत् ।। " इति करणस्य परब्रह्मध्यानरूपस्य प्रक्षीणाशेषभावनात्मस्वरूपप्राप्तया कृतकृत्यत्वेन निवृत्तिवचनाद्यावत्सिद्ध्यनुष्ठेयमित्युक्त्वा
"
३" तद्भावभावमापन्नस्तदाऽसौ परमात्मना । भवत्यभेदी भेदश्च तस्याज्ञानकृतो भवेत् ॥ इति मुक्तस्य स्वरूपमाह । तद्भावः - ब्रह्मणो भावः स्वभावः । न तु स्वरूपैक्यम्, तद्भावभावमापन्नइति द्वितीयभावशब्दानन्वयात् पूर्वोक्तार्थविरोधाच। यह्मणः प्रक्षीणाशेषभावनत्वं तदापत्तिस्तद्भावभावापत्तिः ।
दैवमापन्नस्तदाऽसौ परमात्मना अभेदी भवति भेदरहितो भवति । ज्ञानैकाकारतया ४ परमात्मनैकप्रकारस्यास्य तस्माद्भेदो देवादिरूपः । तदन्वयोsस्य कर्मरूपाज्ञानमूलः । न स्वरूपकृतः । स तु देवादिभेदः परब्रह्मध्यानेन मूलभूताज्ञानरूपे कर्मिणि विनष्टे हेत्वभावान्निवर्तत इत्यभेदी भवति । यथोक्तम्
५‘“६एकस्वरूपभेदस्तु बाह्यकर्मकृतिप्रजः ।
१. २. ३. वि. पु. ६. अं. ७-अ. ९३.;४. परमात्मनैकस्वभावस्य. पा.
९४.९५.
५. वि. पु. २. अं. १४. अ. ३३. लो. ६. एकत्वं रूपेति. पा.
For Private And Personal Use Only