________________
Shri Mahavir Jain Aradhana Kendra
१. बोधायनवृत्ति:.
२. द्रमिडभाष्यकार वाक्यम्.
७०
शारीरकमीमांसाभाष्ये
[अ. १.
रपि १" जगद्व्यापारवर्ज समानो ज्योतिषा " इति । द्रमिडभाष्यकारश्च २" देवता सायुज्यादशरीरस्यापि देवतावत्सर्वार्थसिद्धिस्स्यात् " इत्याह । श्रुतयश्च ३" य इहात्मानमनुविद्य व्रजन्त्येतांश्च सत्यान् कामांस्तेषां सर्वेषु लोकेषु कामचारो भवति " ४ “ ब्रह्मविदाप्नोति परम् " ५" सोऽश्नुते सर्वान् कामान् सह । ब्रह्मणा विपश्चिता " ६" एतमानन्दमयमात्मानमुपसंक्रम्य । इमान् लोकान् कामानी कामरूप्यनुसंचरन् " " स तत्र पर्येति " " रसो वै सः । रसं ह्येवायं लब्ध्वाऽऽनन्दी भवति " ९ " यथा नद्यः स्यन्दमानास्समुद्रे अस्तं गच्छन्ति नामरूपे विहाय । तथा विद्वानामरूपाद्विमुक्तः परात्परं पुरुषमुपैति दिव्यम् " १०" तदा विद्वान् पुण्यपापे विधूय निरञ्जनः परमं साम्यमुपैति " इत्याद्याः ॥
परविद्यासु सर्वासु सगुणमेव ब्रह्मोपास्यम् । फलं चैकरूपमेव । अतो विद्याविकल्पइति सूत्रकारणैव- ११" आनन्दादयः प्रधानस्य " १२ “विकल्पोऽविशिष्टफलत्वात्" इत्यादिषूक्तम्। वाक्यकारेण च सगुणस्यैवोपास्यत्वं विद्याविकल्पश्वोक्तः- १३ युक्तं तद्गुणकोपासनात्" इति । भाष्यकृता व्याख्यातं च १ ४ " यद्यपि सच्चित्तः" इत्यादिना । १५" ब्रह्म वेद ब्रह्मैव भवति" इत्यत्रापि १६" नामरूपाद्विमुक्तः परात्परं पुरुषमुपैति - दिव्यम्” १७ “निरञ्जनः परमं साम्यमुपैति " १८" परं ज्योतिरुपसंपद्य स्वेन रूपेणाभिनिष्पद्यते " इत्यादिभिरैकार्थ्यात् प्राकृतनामरूपाभ्यां विनिर्मु
३. छा. ८- प्र. १ - ख. ६ ४. ५. तै, आन. १ - अनु. १, २ . तै.
६.
भृगु. १०- अनु. ५.
७. छा. ८- प्र. १२ ख. ३.
८. तै. आ. ७. अनु, १.
www.kobatirth.org
९. मु. ३ मु. २ ख. ८. १० मु. ३- मु. १-ख. ३.
Acharya Shri Kailassagarsuri Gyanmandir
११. शारी, ३-अ, ३-पा, ११- मु. १२. शारी. ३-अ, ३-पा, ७५. सृ. १३. वाक्यम् .
१४. द्रमिडभाष्यकारीयम् .
१५. मु. ३- मु. २ ख. ९.
१६. मु. ३- मु.
For Private And Personal Use Only
२ ख. ८.
१७. मु. ३- मु.
१८. छा. ८. प्र. १२. ख- २
१ - ख. ३.