SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पा. १.] जिज्ञासाधिकरणम् . यदप्युच्यते निर्विशेषे स्वयंप्रकाशे वस्तुनि दोषपरिकल्पित मीशेशितव्याघनन्तविकल्पं सर्व जगत् । दोषश्च स्वरूपतिरोधानविविधवि. चित्रविक्षेपकरी सदसदनिर्वचनीयाऽनाद्यविद्या । सा चावश्याभ्युपगमनीया; २" अनृतेन हि प्रत्यूढाः" इत्यादिभिः श्रुतिभिः ब्रह्मणस्तत्त्वमस्यादिवाक्यसामानाधिकरण्यावगतजीवैक्यानुपपत्त्या च । सा तु न सती, भ्रान्तिबाधयोरयोगात् । नाप्यसती, ख्यातिबाधयोश्चायोगात् । अतः कोटिद्वयविनिर्मुक्तेयमविद्येति तत्त्वविदः इति । तदयुक्तम् । सा हि किमाश्रित्य भ्रमं जनयति ? । न तावज्जीवमाश्रित्य , अविद्यापरिकल्पितत्वाज्जीवभावस्य । नापि ब्रह्माश्रित्य ; तस्य स्वयंप्रकाशज्ञानस्वरूपत्वेनाविद्याविरोधित्वात् । सा हि ज्ञानबाध्याऽभिमता ॥ ३" ज्ञानरूपं परं ब्रह्म तनिवर्त्य मृषात्मकम् । अज्ञानं चेत्तिरस्कुर्यात्कः प्रभुस्तन्निवर्तने । ज्ञानं ब्रह्मेति चेत् ज्ञानमज्ञानस्य निवर्तकम् । ब्रह्मवत्तत्प्रकाशत्वात्तदपि ह्यनिवर्तकम् ।। ज्ञानं ब्रह्मेति विज्ञानमस्ति चेत्स्यात्प्रमेयता । ब्रह्मणोऽननुभूतित्वं त्वदुक्तयैव प्रसज्यते ॥" ज्ञानस्वरूपं ब्रह्मेति ज्ञानं तस्या अविद्याया बाधकम् , न स्वरूपभूतं ज्ञानमिति चेन्न, उभयोरपि ब्रह्मस्वरूपप्रकाशत्वे सत्यन्यतरस्याविद्याविरोधित्वमन्यतरस्य नेति विशेषानवगमात् ॥ एतदुक्तं भवति–ज्ञानस्वरूपं ब्रह्मेत्यनेन ज्ञानेन ब्रह्मणि यस्स्वभावोऽवगम्यते । स ब्रह्मणस्स्वयंप्रकाशत्वेन स्वयमेव प्रकाशत इत्यविद्याविरोधित्वे न कश्चिद्विशेषस्स्वरूपतद्विषयज्ञानयोः-इति।किं च-अनुभवस्वरू१. ईश्वरेशितव्येति. पा. २. छा. ८. प्र. ३. ख. २. ३. इमे श्लोका नाथमुनिसूक्तयः. ४. प्रभुस्तन्निवर्तकः इति पा. JO For Private And Personal Use Only
SR No.020696
Book TitleSharirik Mimansa Bhashye Part 01
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1909
Total Pages465
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy