________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
६८
शारीरकमीमांसाभाष्ये
[अ. १.
र्थानां तत्तद्दव्यत्वेनैक्यमेव न स्वरूपैक्यम् । तथा वायवीयानामंशानामपि
Acharya Shri Kailassagarsuri Gyanmandir
स्वरूपभेदोऽवर्जनीयः ॥
“सोऽहं स च त्वम्" इति सर्वात्मनां पूर्वोक्तं ज्ञानाकारत्वं तच्छब्देन परामृश्य तत्सामानाधिकरण्येनाहं त्वमित्यादीनामर्थानां ज्ञानमेवा कार इत्युपसंहरन् देवाद्याकारभेदेनात्मसु भेदमोहं परित्यजेत्याह । अन्यथा देहातिरिक्तात्मोपदेश्य स्वरूपे अहं त्वं सर्वमेतदात्मस्वरूपमिति भेदनिर्देशो न घटते । अहं त्वमादिशब्दानामुपलक्ष्येण सर्वमेतदात्मस्वरूपमित्यनेन सामानाधिकरण्यादुपलक्षणत्वमपि न संगच्छते। सोऽपि यथोपदेशमकरोदित्याह “ तत्याज भेदं परमार्थदृष्टिः" इति । कुतश्चैष निर्णय इति चेत् देहात्मविवेकविषयत्वादुपदेशस्य । तच्च १" पिण्डः पृथग्यतः पुंसश्शिर:पाण्यादिलक्षणः " इतिप्रक्रमात् ॥
“ विभेदजनके ज्ञाने" इति च नात्मस्वरूपैक्यपरम् । नापि जीवपरयोः । आत्मस्वरूपैक्यमुक्तरीत्या निषिद्धम् । जीवपरयोरपि स्वरूपैक्यं देहात्मनोरिव न संभवति । तथाच श्रुतिः २ द्वा सुपर्णा सयुजा सखाया समानं वृक्षं परिषस्वजाते । तयोरन्यः पिप्पलं स्वाद्वत्यनश्नन्नन्यो अभिचाकशीति "३" ऋतं पिबन्तौ सुकृतस्य लोके गुहां प्रविष्टौ परमे परायें। छायातपौ ब्रह्मविदो वदन्ति पञ्चाग्नयो ये च त्रिणाचिकेताः।।" ४" अन्तः प्रविष्टश्शास्ता जनानां सर्वात्मा" इत्याद्याः । अस्मिन्नपि शास्त्रे ५" स सर्वभूतप्रकृतिं विकारान् गुणादिदोषांश्च मुने व्यतीतः। अतीतसर्वावरणोऽखिलात्मा तेनाऽस्तृतं यद्भवनान्तराले” ६" समस्त कल्याणगुणा
१. वि. पु. २- अं. १३. अ. ८९ -लो.
२. मु. ३. मु. १. ख. १ वा. ३. कठ. ३. वल्लयां. १ - वा.
४. यजुरारण्यके. ३ - प्रश्ने. २०-पं.
५. ६, वि. पु. ६ - अं. ५ - अ. ८३, ८४ लो.
For Private And Personal Use Only