________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पा. १.]
जिज्ञासाधिकरणम् . च पश्यन्तीत्याह "ये तु ज्ञानविदः" इति।अन्यथा श्लोकानां पौनरुक्त्यम्, पदानां लक्षणा, अर्थविरोधः, प्रकरणविरोधः, शास्त्रताप्तर्यविरोधश्च ॥
"तस्यात्मपरदेहेषु सतोऽप्येकमयम्" इत्यत्र सर्वेष्वात्मसु ज्ञानैकाकारतया समानेषु सत्सु देवमनुष्यादिप्रकृतिपरिणामविशेषरूपपिण्डसंसगंकृतमात्मसु देवाद्याकारेण द्वैतदर्शनमतथ्यमित्युच्यते । पिण्डगतमात्मगतमपि द्वैतं न प्रतिषिध्यते । देवमनुष्यादिविविधविचित्रपिष्डेषु वर्तमानं सर्वयात्मवस्तु सममित्यर्थः। यथोक्तं भगवता "शुनि चैव श्वपाके च पण्डितास्समदर्शिनः"२ "निर्दोषं हि समं ब्रह्म" इत्यादिषु; "तस्यात्मपरदेहेषु सतोऽपि" इति देहातिरिक्त वस्तुनि स्वपरविभागस्योक्तत्वात् ।।
"यद्यन्योऽस्ति परः कोऽपि" इत्यत्रापि नात्मैक्यं प्रतीयते; यदि मत्तः परः कोऽप्यन्य इत्येकस्मिन्नर्थे परशब्दान्यशब्दयोः प्रयोगायोगात् तत्र परशब्दस्वव्यतिरिक्तात्मवचनः। अन्यशब्दस्तस्यापि ज्ञानैकाकारस्वादन्याकारत्वप्रतिषेधार्थः। एतदुक्तं भवति याद मव्यतिरिक्तः कोऽप्यात्मा मदाकारभूतज्ञानाकारादन्याकारोऽस्ति,तदाऽहमेवमाकारः अयंचान्यादृशाकार इति शक्यते व्यपदेष्टुम् । नचैवमस्तिः सर्वेषां ज्ञानकाकारत्वेन समानत्वादेवेति ॥
"वेणुरन्ध्रविभेदेन" इत्यत्राप्याकारवैषम्यमात्मनां न स्वरूपकृतम्। अपितु देवादिपिण्डप्रवेशकृतमित्युपदिश्यते नात्मैक्यम् । दृष्टान्ते चानेकरन्ध्रवर्तिनां वाय्वंशानां न स्वरूपैक्यम् ; अपित्वाकारसाम्यमेव ।तेषां वायुत्वेनैकाकाराणां रन्ध्रभेदनिष्क्रमणकृतो हि षड्जादिसंज्ञाभेदः। एवमात्मनां देवादिसंज्ञाभेदः। यथा तैजसाप्यपार्थिवद्रव्यांशभूतानां पदा१. पी. ५. अ. १८-श्लो.
२ गी. ५. अ. १९-श्लो.
For Private And Personal Use Only