________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शरीरकमीमांसाभाष्ये
[अ. १. कल्पितः इति चोद्यपरिहारौ स्याताम् । उत्पत्त्यादिकार्य सत्त्वादिगुणयुक्तापरिपूर्णकर्मवश्येषु दृष्टमिति सत्त्वादिगुणरहितस्य परिपूर्णस्याकर्मवश्यस्य कर्मसम्बन्धानहस्य कथं सर्गादिकर्तृत्वमभ्युपगम्यत इति चोद्यम् । दृष्टसकलविसजातीयस्य ब्रह्मणो यथोदितस्वभावस्यैव जलादिविसजातीयस्याग्न्यादेरौष्ण्यादिशक्तियोगवत्सर्वशक्तियोगो न विरुध्यत इति परिहारः॥
"परमार्थस्त्वमेवैकः" इत्याद्यपि न कृत्स्नस्यापारमार्थ्यं वदति । अपि तु कृत्स्नस्य तदात्मकतया तव्यतिरेकेणावस्थितस्यापारमार्थ्यम् । तदेवोपपादयति-१"तवैष महिमा येन व्याप्तमेतच्चराचरम्" इति । येन त्वयेदं चराचरं व्याप्तम् ; अतस्त्वदात्मकमेवेदं सर्वमिति त्वदन्यः कोऽपि नास्ति । अतस्सर्वात्मतया त्वमेवैकः परमार्थः । अत इदमुच्यतेतवैष महिमा, या सर्वव्याप्तिः—इति । अन्यथा तवैषा भ्रान्तिरिति वक्तव्यम्। जगतः पते त्वमित्यादीनां पदानां लक्षणा च स्यात्। लीलया महीमुद्धरतो भगवतो महावराहस्य स्तुतिप्रकरणविरोधश्च ॥
यतः कृत्स्नं जगत् ज्ञानात्मना त्वयाऽऽत्मतया व्याप्तत्वेन तव मूर्तम् । तस्मात्त्वदात्मकत्वानुभवसाधनयोगविरहिण एतत्केवलदेवमनुष्यादिरूपमिति भ्रान्तिज्ञानेन पश्यन्तीत्याह " यदेतद्दश्यते " इति ॥
न केवलं वस्तुतस्त्वदात्मकं जगद्देवमनुष्याद्यात्मकमिति दर्शनमेव भ्रमः; ज्ञानाकाराणामात्मनां देवमनुष्याद्यर्थाकारत्वदर्शनमपि भ्रमइत्याह "ज्ञानस्वरूपमखिलम्" इति ॥
ये पुनर्बुद्धिमन्तो ज्ञानस्वरूपात्मविदस्सर्वस्य भगवदात्मकत्वानुभवसाधनयोगयोग्यपरिशुद्धमनसश्च । ते देवमनुष्यादिप्रकृतिपरिणामविशेषशरीररूपमिदमखिलं जगच्छरीरातिरिक्तज्ञानस्वरूपात्मकं त्वच्छरीरं १. वि. पु. १-अं. ४-अ. ३८-लो.
For Private And Personal Use Only