________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
६२
[अ. १.
ज्ञानैकाकारस्यामूर्ताख्यविभागस्य निष्पन्नयोगिध्येयतया योगयुमनसो - नालम्बनतया स्वतश्शुद्धिविरहाच्च शुभाश्रयत्वं प्रतिषिध्य, परशक्तिरूपमिदममूर्तमपरशक्तिरूपं क्षेत्रज्ञाख्यमूर्त च परशक्तिरूपस्यात्मनः क्षेत्र - ज्ञतापत्तिहेतुभूततृतीयशक्त्याख्यकर्मरूपाविद्या चेत्येतच्छक्तित्रयाश्रयो भगवदसाधारण 'मादित्यवर्णमि" त्यादिवेदान्तसिद्धं मूर्तरूपं शुभाश्रय - त्युक्तम्। अत्र परिशुद्धात्मस्वरूपस्य शुभाश्रयतानर्हतां वक्तुं " प्रत्यस्तमितभेदं यत्" इत्युच्यते । तथाहि
१" न तद्योगयुजा शक्यं नृप चिन्तयितुं यतः ॥ द्वितीयं विष्णुसंज्ञस्य योगिध्येयं परं पदम् ।। समस्तारशक्तयचैता नृप यत्र प्रतिष्ठिताः । तद्विश्वरूपवैरूप्यं रूपमन्यद्धरेर्महत् ।। "
शारीरकमीमांसाभाष्ये
Acharya Shri Kailassagarsuri Gyanmandir
इति च वदति । तथा चतुर्मुखसनकसनन्दनादीनां जगदन्तर्वर्तिनामवेद्यावेष्टितत्वेन शुभाश्रयतानर्हतामुक्त्वा, बद्धानामेव पश्चाद्योगेन उद्भूतबोधानां स्वस्वरूपापन्नानां च स्वतश्शुद्धिविरहाद्भगवता शौनकेन शुभाश्रयता निषिद्धा-
२" आब्रह्मस्तम्बपर्यन्ता जगदन्तर्व्यवस्थिताः । प्राणिनः कर्मजनितसंसारवशवर्तिनः ॥ यतस्ततो न ते ध्याने ध्यानिनामुपकारकाः । अविद्यान्तर्गतास्सर्वे ते हि संसारगोचराः || पश्चादुद्भुतबोधाश्च ध्याने नैवोपकारकाः । नैसर्गिको न वै बोधस्तेषामप्यन्यतो यतः । तस्मात्तदमलं ब्रह्म निसर्गादेव बोधवत् ॥ " -
".
१. विष्णु. पु. ६. अं७. अ. ५५,६९,७०.लो. | अ. २३, २४, २५, २६.लो. २, भविग्यत्पुराणान्तर्गतश्रीविष्णुधमें. १०४. ३. कर्मजनिताः इत्यपि. पा.
For Private And Personal Use Only