________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पा. १.]
जिज्ञासाधिकरणम् . इत्यादिना परस्य ब्रह्मणो विष्णोस्वरूपं स्वासाधारणमेव शुभाश्रय इत्युक्तम् । अतोऽत्र न भेदापलापः प्रतीयते ॥
"ज्ञानस्वरूपम्" इत्यत्रापि ज्ञानव्यतिरिक्तस्यार्थजातस्य कृत्स्नस्य न मिथ्यात्वं प्रतिपाद्यते,ज्ञानस्वरूपस्याऽत्मनो देवमनुष्याद्यर्थाकारणावभासो भ्रान्तिरित्येतावन्मात्रवचनात् । न हि शुक्तिकाया रजततयाऽवभासो भ्रान्तिरित्युक्ते जगति कृत्स्नं रजतजातम्मिथ्या भवति । जगहह्मणोस्सामानाधिकरण्येनैक्यप्रतीतेः, ब्रह्मणो ज्ञानस्वरूपस्यार्थाकारता भ्रान्तिरित्युक्ते सत्यर्थजातस्य कृत्स्नस्य मिथ्यात्वमुक्तं स्यादिति चेत् । तदसत् । अस्मिन् शास्त्रे परस्य ब्रह्मणो विष्णोनिरस्ताज्ञानादिनिखिलदोषगन्धस्य समस्तकल्याणगुणात्मकस्य महाविभूतेः प्रतिपन्नतया तस्य भ्रान्तिदर्शनासम्भवात् । सामानाधिकरण्येनैक्यप्रतिपादनं च बाधासहविरुद्धं चेत्यनन्तरमेवोपपादयिष्यते । अतोऽयमपि श्लोको नार्थस्वरूपस्य बाधकः॥
तथाहि- १“यतो वा इमानि भूतानि जायन्ते । येन जातानि जीवन्ति। यत्प्रयन्त्यभिसंविशन्ति। तद्विजिज्ञासस्व। तद्ब्रह्म"इति जगजन्मादिकारणं ब्रह्मेत्यवसिते सति
२" इतिहासपुराणाभ्यां वेदं समुपबृंहयेत् । विभेत्यल्पश्रुताद्वेदो मामयं प्रतरिष्यति ॥" .
इति शास्त्रेणार्थस्य इतिहासपुराणाभ्यामुपबृंहणं कार्यमिति विज्ञायते । उपबृंहणं नाम विदितसकलवेदतदर्थानां स्वयोगमहिमसाक्षात्कृत वेदतत्त्वार्थानां वाक्यैस्स्वावगतवेदवाक्यार्थव्यक्तीकरणमासकल३ शाखा१. तै. उ. भृगुवल्ल्याम्. १. अनु. ३. शाखानुगतस्य. पा. २. भार - आदिप, १-२७३.
For Private And Personal Use Only