SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पा. १.] जिज्ञासाधिकरणम्. १तयोस्सैव पृथग्भावकारणं संश्रयस्य च ॥ यथा सक्तं जले वातो बिभर्ति कणिकाशतम् । शक्तिस्साऽपि तथा विष्णोः प्रधानपुरुषात्मनः॥" २"तदेतदक्षयं नित्यं जगन्मुनिवराखिलम् । आविर्भावतिरोभावजन्मनाशविकल्पवत् ॥" । इत्यादिना परं ब्रह्म स्वभावत एव निरस्तनिखिलदोषगन्धं समस्तकल्याणगुणात्मकं जगदुत्पत्तिस्थितिसंहारान्तःप्रवेशनियमनादिलीलं प्रतिपाद्य कृत्स्नस्य चिदचिद्वस्तुनस्सर्वावस्थावस्थितस्य, पारमार्थिकस्यैव, परस्य ब्रह्मणश्शरीरतया रूपत्वम् , शरीररूपतन्वंशशक्तिविभूत्यादिशब्दैस्तत्तच्छब्दसामानाधिकरण्येन चाभिधायतद्विभूतिभूतस्य चिद्वस्तुनस्वरूपेणावस्थितिमचिन्मिश्रतया क्षेत्रज्ञरूपेण स्थितिं चोक्तवा, क्षेत्रज्ञावस्थायां पुण्यपापात्मककर्मरूपाविद्यावेष्टितत्वेन स्वाभाविकज्ञानरूपत्वाननुसन्धानमचिद्रपार्थाकारतयाऽनुसन्धानं च प्रतिपादितमिति परं ब्रह्म सविशेष तद्विभूतिभूतं जगदपि पारमार्थिकमेवेति ज्ञायते ॥ "प्रत्यस्तमितभेदम्" इत्यत्र देवमनुष्यादिप्रकृतिपरिणामविशेषसंसृष्टस्याप्यात्मनस्वरूपं तद्गतभेदरहितत्वेन तद्भेदवाचिदेवादिशब्दागोचर ज्ञानसत्तैकलक्षणं स्वसंवेद्यं योगयुङ्मनसो न गोचरइत्युच्यतइति । अनेन न प्रपञ्चापलापः। कथमिदमवगम्यत इति चेत् । तदुच्यते अस्मिन् प्रकरणे संसारैकभेषजतया योगमभिधाय योगावयवान् प्रत्याहारपर्यन्तां धोक्त्वा, धारणासिद्ध्यर्थ शुभाश्रयं वक्तुं परस्य ब्रह्मणो विष्णोश्शक्तिशब्दाभिधेयं रूपद्वयं मूर्तामूर्तविभागेन प्रतिपाद्य, तृतीयशक्तिरूपकर्माख्याविद्यावेष्टितम् अचिद्विशिष्ट क्षेत्रमै मूर्ताख्यविभागं भावनात्रयान्वयादशुभमित्युक्त्वा, द्वितीयस्य कर्माख्याविद्याविरहिणोऽचिद्वियुक्तस्य १. विष्णु. पु. २. अं. ७.अ. ३०,३१.श्लो. ३. अचिद्रूपतदर्था. पा. २. विष्णु, पु. १. अं. २२. अ. ६०. लो For Private And Personal Use Only
SR No.020696
Book TitleSharirik Mimansa Bhashye Part 01
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1909
Total Pages465
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy