________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शारीरकमीमांसामाध्ये
[भ.१. १ तद्ब्रह्म परमं नित्यमजरमक्षरमव्ययं । एकस्वरूपं च सदा हेयाभावाच्च निर्मलम् ॥ तदेव सर्वमेवैतद्व्यक्ताव्यक्तस्वरूपवत् । तथा पुरुषरूपेण कालरूपेण च स्थितम् ॥" ३. प्रकृतिया मयाऽऽख्याता व्यक्ताव्यक्तस्वरूपिणी । पुरुषश्चाप्युभावेतौ लीयेते परमात्मनि ॥ परमात्मा च सर्वेषामाधारः परमेश्वरः। विष्णुनामा स वेदेषु वेदान्तेषु च गीयते॥" ४"द्वे रूपे ब्रह्मणस्तस्य मूत चामूर्तमेव च । क्षराक्षरस्वरूपे ते सर्वभूतेषु च स्थिते । अक्षरं तत्परं ब्रह्म क्षरं सर्वमिदं जगत् । एकदेशस्थितस्याग्नेज्योत्स्ना विस्तारिणी यथा॥ परस्य ब्रह्मणशक्तिस्तथेदमखिलं जगत् ॥" ५"विष्णुशक्तिः परा प्रोक्ता क्षेत्रज्ञाख्या तथाऽपरा। अविद्या कर्मसंज्ञाऽन्या तृतीया शक्तिरिष्यते॥ यया क्षेत्रज्ञशक्तिस्सा वेष्टिता नृप सर्वगा। संसारतापानखिलानवाप्नोत्यतिसन्ततान् । तया तिरोहितत्वाच्च शक्तिः क्षेत्रज्ञसंज्ञिता। सर्वभूतेषु भूपाल तारतम्येन वर्तते॥" ६"प्रधानं च पुमांश्चैव सर्वभूतात्मभूतया।
विष्णुशक्त्या महाबुद्धे वृतौ संश्रयधर्मिणौ ॥ १. विष्णु.पु. १. अं. २. अ. १३,१४.श्लो ५७. श्लो. २, अक्षय. पा,
५. विष्णु. पु. ६. अं ७. अ. ६१, ६२, ३. विष्णु, पु. ६. अं. ४. अ, ३९,४०.श्लो. ६३. श्लो. ४. विष्णु. पु. १. अं २२. अ. ५५, ५६, ६. विष्णु. पु. २. अं ७. अ. २९. को.
For Private And Personal Use Only