________________
Shri Mahavir Jain Aradhana Kendra
पा. १.]
www.kobatirth.org
जिज्ञासाधिकरणम् .
स च भूतेष्वशेषेषु वकारार्थस्ततोऽव्ययः ।। " १"ज्ञानशक्तिबलैश्वर्यवीर्यतेजांस्यशेषतः । भगवच्छब्दवाच्यानि विना हेयैर्गुणादिभिः ।। " २" एवमेष महाशब्दो मैत्रेय भगवानिति । परमब्रह्मभूतस्य वासुदेवस्य नान्यगः ॥ तत्र पूज्यपदार्थोक्तिपरिभाषासमन्वितः । शब्दोऽयं नोपचारेण धन्यत्र ह्यपचारतः ।। " ३" समस्तारशक्तयचैता नृप यत्र प्रतिष्ठिताः । तद्विश्वरूपवैरूप्यं रूपमन्यद्धरेर्महत् ।। समस्तशक्तिरूपाणि तत्करोति जनेश्वर । देवतिर्यमनुष्याख्याचेष्टावन्ति स्वलीलया ॥ जगतामुपकाराय न सा कर्मनिमित्तजा । चेष्टा तस्याप्रमेयस्य व्यापिन्यव्याहतात्मिका ॥" ४" एवंप्रकारममलं नित्यं व्यापकमक्षयम् । समस्तहेयरहितं विष्ण्वाख्यं परमं पदम् ॥” ५" परः पराणां परमः परमात्माऽऽत्मसंस्थितः । रूपवर्णादिनिर्देशविशेषणविवर्जितः ॥ अपक्षयविनाशाभ्यां परिणामर्द्धिजन्मभिः । वर्जित शक्यते वक्तुं यस्सदाऽस्तीति केवलम् ॥ सर्वत्रासौ समस्तं च वसत्यत्वेति वै यतः । ततस्स वासुदेवेति विद्भिः परिपठ्यते ।।
१. विष्णु. पु. ६. अं. ५. अ, ७९. श्रो. २. विष्णु. पु. ६. अं ५. अ. ७६,७७, लो. ३. विष्णु. पु. ६. अं. ७, अ. ७०, ७१, ७२. श्रो.
Acharya Shri Kailassagarsuri Gyanmandir
४. विष्णु. पु. ५. विष्णु, पु.
१२. लो,
For Private And Personal Use Only
५९
१. अं, २२. अ. ५३. लो. १. अं. २. अ. १०, ११,