________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[अ. १.
शारीरकमीमांसाभाप्ये १५ उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः । यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वरः ॥ यस्मात्क्षरमतीतोऽहमक्षरादपि चोत्तमः।। अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः ॥" २" स सर्वभूतप्रकृति विकारान् गुणादिदोषांश्च मुनेव्यतीतः। अतीतसर्वावरणोऽखिलात्मा तेनास्तृतं यद्भवनान्तराले ॥ समस्तकल्याणगुणात्मकोऽसौ स्वशक्तिलेशाद्धत भूतसर्गः। इच्छागृहीताभिमतोरुदेहस्संसाधिताशेषजगद्धितोऽसौ ॥ तेजोबलैश्वर्यमहावबोधसुवीर्यशक्त्यादिगुणैकराशिः। परः पराणां सकला न यत्र क्लेशादयस्सन्ति परावरेशे ॥ स ईश्वरो व्यष्टिसमष्टिरूपोऽव्यक्तस्वरूपः प्रकटस्वरूपः । सर्वेश्वरस्सर्वहक्सर्ववेत्ता समस्तशक्तिः परमेश्वराख्यः॥ संझायते येन तदस्तदोषं शुद्धं परं निर्मलमेकरूपम् । संदृश्यते वाऽप्यधिगम्यते वा तन ज्ञानमज्ञानमतोऽन्यदुक्तम् ।।" ४"शुद्धे महाविभूत्याख्ये परे ब्रह्मणि शब्द्यते । मैत्रेय भगवच्छब्दस्सर्वकारणकारणे ॥ संभर्तेति तथा भर्ता भकारोऽर्थद्वयान्वितः। नेता गमयिता स्रष्टा गकारार्थस्तथा मुने । ऐश्वर्यस्य समग्रस्य वीर्यस्य यशसश्श्रियः। ज्ञानवैराग्ययोश्चैव षण्णां भगइतीरणा ॥
वसन्ति तत्र भूतानि भूतात्मन्यखिलात्मनि । १. नी. १५. अ. १७, १८. श्लो. ३. भूतवर्ग इति च पा. २. विष्णु. पु. ६, अं. ५. अ. ८३, ८४, ४. विष्णु. पु. ६. अं, ५, अ. ७२, ७३ ८५, ८६, ८७.
| ७४, ७५. लो.
For Private And Personal Use Only