________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५६ शारीरकमीमांसाभाष्ये
[अ. १. ज्ञातृत्वमपि श्रुतिशतसमधिगतमित्युक्तम् । तद्वदेव १" स एको ब्रह्मण
आनन्द:"२"आनन्दं ब्रह्मणो विद्वान्" इति व्यतिरेकनिर्देशाच नाऽनन्दमात्रं ब्रह्म ; अपि त्वानन्दिः । ज्ञातृत्वमेव ह्यानन्दित्वम् ॥
____ यदिदमुक्तम्-३" यत्र हि द्वैतमिव भवति" ४" नेह नानास्ति किश्चन । मृत्योस्स मृत्युमामोति य इह नानेव पश्यति" ५" यत्र त्वस्य सर्वमात्मैवाभूत्तत्केन के पश्येत् " इति भेदनिषेधो बहुधा दृश्यत इति ; तत्कृत्स्नस्य जगतो ब्रह्मकार्यतया तदन्तर्यामिकतया च तदात्मकत्वेनैक्यात् ,तत्सत्यनीकनानात्वं प्रतिषिद्धयते।न पुनः "बहुस्यां प्रजायेय" इति बहुभवनसंकल्पपूर्वकं ब्रह्मणो नानात्वं श्रुतिसिद्धं प्रतिषिध्यत इति परिहृतम् । नानात्वनिषेधादियमपरमार्थविषयेति चेत् ; न, प्रत्यक्षादिसकलप्रमाणानवगतं नानात्वं दुरारोहं ब्रह्मणः प्रतिपाद्य तदेव बाध्यत इत्युपहास्यमिदम् ॥
"यदा ह्येवैष एतस्मिन्नुदरमन्तरं कुरुते।अथ तस्य भयं भवति" इति ब्रह्मणि नानात्वं पश्यतो भयप्राप्तिरिति यदुक्तम् । तदसत्, ७"सर्व खल्विदं ब्रह्म तजलानिति शान्त उपासीत" इति तन्नानात्वानुसन्धानस्य शान्तिहेतुत्वोपदेशात् । तथा हि सर्वस्य जगतस्तदुत्पत्तिस्थितिलयकर्मतया तदात्मकत्वानुसंधानेनात्र शान्तिर्विधीयते । अतो यथावस्थितदेवतिर्यमनुष्यस्थावरादिभेदभिन्नं जगत् ब्रह्मात्मकमित्यनुसंधानस्य शान्तिहेतुतया अभयप्राप्तिहेतुत्वेन न भयहेतुत्वप्रसङ्गः । एवं तर्हि "अथ तस्य भयं भवति"इति किमुच्यते इदमुच्यते," यदा ह्येवैष एतस्मिन्बहश्येऽनात्म्येऽनिरुक्तेऽनिलयनेऽभयं प्रतिष्ठां विन्दते । अथ सोऽभयं गतो १. तै-आन. ८-अनु. ४-वा.
५. बृ. ४.अ. ४-ब्रा. १४-वा.
. ७-अनु. २.वा. ७. छा. ३-प्र. १४-ख. १. वा, ८. ते-आन. ७-अनु. २-वा.
२. तै-आन. ९-अनु. १-वा. ३. वृ. ४-अ. ४-ब्रा. १४ वा ४. यू.६-अ. ४-प्रा.१९-वा.
For Private And Personal Use Only