SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पा. १.] जिज्ञासाधिकरणम् . भवति"इति ज्ञानान्मोक्षोपदेशो न स्यात्। १“असन्नेव स भवति। असद्रह्मेति वेद चेत् । अस्ति ब्रह्मेति चेद्वेद । सन्तमेनं ततो विदुः" इति ब्रह्मविषयज्ञानासद्भावसद्भावाभ्यामात्मनाशमात्मसत्तां च वदति। अतो ब्रह्मविषयवेदनमेवारपवर्गोपायं सर्वाश्श्रुतयो विदधति । ज्ञानं चोपासनात्मकम्।उपास्यं च ब्रह्म सगुणमित्युक्तम् । ३“यतो वाचो निवर्तन्ते। अप्राप्य मनसा सह"इति ब्रह्मणोऽनन्तस्यापरिच्छिन्नगुणस्य वाङ्मनसयोरेतावदिति परिच्छेदायोग्यत्वश्रवणेन ब्रह्मेतावदिति ब्रह्मपरिच्छेदज्ञानवतां ब्रह्माविज्ञातममतमित्युक्तम् , अपरिच्छिन्नत्वाब्रह्मणः । अन्यथा “ यस्यामतं तस्य मतम् " "विज्ञातमविजानताम्"इति मतत्वविज्ञातत्ववचनं तत्रैव विरुध्यते ॥ यत्तु-५"न दृष्टेष्टारं—न मतेमन्तारम्" इति श्रुतिदृष्टेमतेर्व्यतिरिक्तं द्रष्टारं मन्तारं च प्रतिषेधति इति तदागन्तुकचैतन्यगुणयोगितया ज्ञातुरज्ञानस्वरूपतां कुतर्कसिद्धां मत्वा न तथाऽऽत्मानं पश्येः, न मन्वीथाः अपि तु द्रष्टारं मन्तारमप्यात्मानं दृष्टिमतिरूपमेव पश्यरित्यभिदधातीति परिहृतम् । अथवा दृष्टेन॒ष्टारं मतेमन्तारं जीवात्मानं प्रतिषिध्य सर्वभूतान्तरात्मानं परमात्मानमेवोपास्स्वेति वाक्यार्थः; अन्यथा ६"विज्ञातारमरे केन विजानीयात्" इत्यादिज्ञातृत्वश्रुतिविरोधश्च ॥ "आनन्दो ब्रह्म"इति आनन्दमात्रमेव ब्रह्मस्वरूपं प्रतीयत इति यदुक्तं; तज्ज्ञानाश्रयस्य ब्रह्मणो ज्ञानं स्वरूपमिति वदतीति परिहृतम् । ज्ञानमेव ह्यनुकूलमानन्द इत्युच्यते। ८"विज्ञानमानन्दं ब्रह्म"इत्यानन्दरूपमेव ज्ञानं ब्रह्मेत्यर्थः । अत एव भवतामेकरसता । अस्य ज्ञानस्वरूपस्यैव १. तै. आन. ६-अनु. १-वा. ५. बृ. ५-अ. ४-ब्रा. २-वा. २. अपवर्गाय सर्वा इति-पा. ६. बृ. ४-अ. ४-ब्रा. १४-वा. ३. ते-आन. ९-अनु. १-वा. ७. तै-भृगु. ६-अनु. १-वा. ४. अपरिमितगुणस्य. पा. ८. बृ. ५-अ. ९-ग्रा. २८-वा. For Private And Personal Use Only
SR No.020696
Book TitleSharirik Mimansa Bhashye Part 01
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1909
Total Pages465
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy