________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शारीरकमीमांसाभाष्ये
[भ. १. स्माऽपहतपाप्मा विजरो विमृत्युर्विशोको विजिघत्सोऽपिपासस्सत्यकामस्सत्यसङ्कल्पः" इत्याद्याश्श्रुतयो ज्ञातृत्वप्रमुखान् कल्याणगुणान् ज्ञानस्वरूपस्यैव ब्रह्मणस्वाभाविकान्वदन्ति समस्तहेयरहिततां चानिर्गुणवाक्यानां सगुणवाक्यानां च विषयमपहतपाप्मेत्यायपिपासइत्यन्तेन हेयगुणान् प्रतिषिद्ध्य "सत्यकामस्सत्यसङ्कल्पः" इति ब्रह्मणः कल्याणगुणाविदधतीयं श्रुतिरेव विविनक्तीति सगुणनिर्गुणवाक्ययोर्विरोधाभावादन्यतरस्य मिथ्याविषयताश्रयणमपि नाशङ्कनीयम् ॥
___१"भीषाऽस्माद्वातः पवते" इत्यादिना ब्रह्मगुणानारभ्य २"ते ये शतम्" इत्यनुक्रमेण क्षेत्रज्ञानन्दातिशयमुक्त्वा ३ " यतो वाचो निवर्तन्ते। अप्राप्य मनसा सह। आनन्दं ब्रह्मणो विद्वान् इति ब्रह्मणः कल्याणगुणानन्त्यमत्यादरेण वदतीयं श्रुतिः ॥ ___४"सोऽश्नुते सर्वान् कामान् सह ब्रह्मणा विपश्चिता"इति ब्रह्मवेदनफलमवगमयद्वाक्यं परस्य विपश्चितो ब्रह्मणो गुणानन्त्यं ब्रवीतिविपश्चिता ब्रह्मणा सह सर्वान् कामान् समश्नुते । काम्यन्त इति कामाः-कल्याणगुणाःब्रह्मणा सह तद्गणान् सर्वानश्नुत इत्यर्थः।दहरविद्यायां ५"तस्मिन्यदन्तस्तदन्वेष्टव्यम्"इतिवद्गणप्राधान्यं वक्तुं सहशब्दः । फलोपासनयोः प्रकारक्यं, ६“यथाक्रतुरास्मिन् लोके पुरुषो भवति तथेतः प्रेत्य भवति" इति श्रुत्यैव सिद्धम् ॥
७"यस्यामतं तस्य मतम् , अविज्ञातं विजानताम्" इति ब्रह्मणो ज्ञानाविषयत्वमुक्तं चेत् ; "ब्रह्मविदामोति परम्" ९"ब्रह्म वेद ब्रह्मैव १-२. तै. आन. ८-अनु. १-वा. ६. छा. ३-प्र. १४-ख. १-वा. ३. तै-आन. ९. अनु. १-वा.
७. केनोप. २-ख. ३-वा. ४. तै. आन. १. अनु. २-वा.
८. तै-आन. १-अनु १-वा. ५. छा. ८-प्र. १-ख. १-वा.
९. मुण्ड. ३-मु. २-ख. ९-वा.
For Private And Personal Use Only