________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पा. १.]
जिज्ञासाधिकरणम्. न्तरमात्रनिषेधः कथं ज्ञायतइति चेत् ; सिमृक्षोर्ब्रह्मण उपादानकारणत्वं “सदेव सोम्येदमग्रआसादेकमेव" इति प्रतिपादितम् । कार्योत्पत्तिस्वाभाव्येन बुद्धिस्थ निमित्तान्तरमिति तदेवाद्वितीयपदेन निषिद्ध्यत इत्यवगम्यते । सर्वनिषेधे हि स्वाभ्युपगतास्सिषाधयिषिता नित्यत्वादयश्च निषिद्धास्स्युः । सर्वशाखाप्रत्ययन्यायश्चात्र भवतो विपरीतफलः, सर्वशाखा कारणान्वयिनां सर्वज्ञत्वादीनां गुणानामत्रोपसंहारहेतुत्वात् । अतः कारणवाक्यस्वभावादपि “सत्यं ज्ञानमनन्तं ब्रह्म" इत्यनेन सविशेषमेव प्रतिपाद्यत इति विज्ञायते ॥
न च निर्गुणवाक्यविरोधः, प्राकृतहेयगुणविषयत्वात्तेषां “निगुणं " " निरञ्जनं " "निष्कलं निष्क्रिय शान्तम्" इत्यादीनाम् । ज्ञानमात्रखरूपवादिन्योऽपि श्रुतयः ब्रह्मणो ज्ञानस्वरूपतामभिदधति ; न तावता निर्विशेषज्ञानमात्रमेव तत्त्वम् , ज्ञातुरेव ज्ञानस्वरूपत्वात् । ज्ञानस्वरूपस्यैव तस्य ज्ञानाश्रयत्वं मणिद्यमणिदीपादिवद्यक्तमेवेत्युक्तम् । ज्ञातृत्वमेव हि सर्वाश्रुतयो वदन्ति–१“यस्सर्वज्ञस्सर्ववित " "तदैक्षत" २" सेयं देवतैक्षत" ३“स ईक्षत लोकान्नु सृजा इति" ४"नित्यो नित्यानां चेतनश्चेतनानामेको बहूनां यो विदधाति कामान् " ५" ज्ञाज्ञौद्वावजावीशनीशौ" ६" तमीश्वराणां परमं महेश्वरं तं देवतानां परमं च दैवतम् । पति पतीनां परमं परस्ताद्विदाम देवं भुवनेशमीडयम्" ७"न तस्य कार्य करणं च विद्यते न तत्समश्चाभ्यधिकश्च दृश्यते। पराऽस्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च" "एष आ
१. मुण्ड. १-मु. १-ख, ९-वा. २. छा. ६-प्र. ३-ख. २-वा. ३. ऐतरे. १-ख. १-वा. ४. कठ. २-अ. ५-वल्ली. १३-या.
५. श्वे. १-अ. ९-वा. ६. श्वे. ६-अ. ७.वा.
७. श्वे. ६-अ. ८-वा. । ८. छा. ८-प्र. १-ख. ५-वा.
.
For Private And Personal Use Only