________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शारीरकमीमांसाभाष्ये
[भ. १. दिकल्याणगुणयोगः परस्य ब्रह्मणः प्रतिपादितः॥
___ " सत्यं ज्ञानमनन्तं ब्रह्म" इत्यत्रापि सामानाधिकरण्यस्यानेकविशेषणविशिष्टकार्थाभिधानव्युत्पत्त्या न निर्विशेषवस्तुसिद्धिः। प्रवृत्तिनिमित्तभेदेनैकार्थवृत्तिलं सामानाधिकरण्यम् । तत्र सत्यज्ञानादिपदमुख्यार्थैर्गुणैस्तत्तद्गणविरोध्याकारप्रत्यनीकाकारैवैकस्मिन्नेवार्थे पदानां प्र वृत्तौ निमित्तभेदोऽवश्याश्रयणीयः । इयांस्तु विशेषः एकस्मिन् पक्षे पदानां मुख्यार्थता ; अपरस्मिंश्च तेषां लक्षणा । न चाज्ञानादीनां प्रत्यनीकता वस्तुस्वरूपमेव ; एकेनैव पदेन स्वरूपं प्रतिपन्नमिति पदान्तरप्रयोगवैयर्थ्यात् । तथा सति सामानाधिकरण्यासिद्धिश्च, एकस्मिन् वस्तुनि वर्तमानानां पदानां निमित्तभेदानाश्रयणात् । न च एकस्यैवार्थस्य विशेषणभेदेन विशिष्टताभेदादनेकार्थत्वं पदानां सामानाधिकरण्यविरोधि ; एकस्यैव वस्तुनोऽनेकविशेषणविशिष्टताप्रतिपादनपरत्वासामानाधिकरण्यस्य, २"भिन्नप्रवृत्तिनिमित्तानां शब्दानामेकस्मिन्नर्थे वृत्तिस्सामानाधिकरण्यम्" इति हि शाब्दिकाः॥
यदुक्तम्, एकमेवाद्वितीयमित्यत्राद्वितीयपदं गुणतोऽपि सद्वितीयतां न सहते; अतस्सर्वशाखाप्रत्ययन्यायेन कारणवाक्यानामद्वितीयवस्तुप्रतिपादनपरत्वमभ्युपगमनीयम् कारणतयोपलक्षितस्याद्वितीयस्य ब्रह्मणो लक्षणमिदमुच्यते “सत्यं ज्ञानमनन्तं ब्रह्म"इति । अतो लिलक्षयिषितं ब्रह्म निर्गुणमेवः अन्यथा ३"निर्गुणं" ४"निरञ्जनम्" इत्यादिभिर्विरोधश्च इति तदनुपपन्न, जगदुपादानस्य ब्रह्मणस्स्वव्यतिरिक्ताधिष्ठात्रन्तरनिवारणेन विचित्रशक्तियोगपतिपादनपरत्वादद्वितीयपदस्य । तथैव विचित्रशक्तियोगमेवावगमयति- ५॥ तदैक्षत बहु स्यां प्रजायेयेति तत्तेजोऽसृजत" इत्यादि । अविशेषेणाद्वितीयमित्युक्ते निमित्ता१. वृत्तित्वं हि. २. कैयटे वृद्ध्याह्निके, । ४. श्वे. ६. अ. १९-वा. ३. मन्त्रिकोपनिषत् .
। ५. छा. ६-प्र. २-ख. ३-वा.
For Private And Personal Use Only