SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पा. १] जिज्ञासाधिकरणम् . मत्तस्सर्व प्रवर्तते" १" तेषामहं समुद्धर्ता मृत्युसंसारसागरात्" २“अहं बीजप्रदः पिता" ३"वेदाहं समतीतानि" इत्यादिषु ॥ ___ यद्यहमित्येवात्मनः स्वरूपम् कथं तहकारस्य क्षेत्रान्तर्भावो भगवतोपदिश्यते? ५"महाभूतान्यहंकारो बुद्धिरव्यक्तमेव च"इति । उच्यते, स्वरूपोपदेशेषु सर्वेष्वहमित्येवोपदेशात्तथैवाऽत्मस्वरूपप्रतिपत्तेश्चाहमित्येव प्रत्यगात्मनः स्वरूपम्।अव्यक्तपरिणामभेदस्याहंकारस्य क्षेत्रान्तर्भावो भगवतैवोपदिश्यते।स त्वनात्मनि देहेऽहंभावकरणहेतुत्वेन अहंकार इत्युच्यते। अस्य त्वहंकारशब्दस्य अभूततद्भावेऽर्थे च्चिप्रत्ययमुत्पाद्य व्युत्पत्तिद्रष्टव्या। अयमेव त्वहंकार उत्कृष्टजनावमानहेतुर्गापरनामा शास्त्रेषु बहुशो हेयतया प्रतिपाद्यते। तस्माद्धाधकापेताऽहंबुद्धिस्साक्षादात्मगोचरैव। शरीरगोचरा त्वहंबुद्धिरविद्यैव। यथोक्तं भगवता पराशरेण-६५७ श्रूयतां चाप्यविद्यायाः स्वरूपं कुलनन्दन।अनात्मन्यात्मबुद्धिर्या" इति।यदि ज्ञप्तिमात्रमेवाऽत्मा, तदाऽनात्मन्यात्माभिमाने शरीरे ज्ञप्तिमात्रप्रतिभासः स्यात् । न ज्ञातृत्वप्रतिभासः । तस्माज्ज्ञाताऽहमर्थ एवाऽऽत्मा । तदुक्तम्८"अतः प्रत्यक्षसिद्धत्वादुक्तन्यायागमान्वयात् । अविद्यायोगतश्चाऽत्मा ज्ञाताऽहमिति भासते ॥” इति ॥ तथाच ९"देहेन्द्रियमनःप्राणधीभ्योन्योऽनन्यसाधनः । नित्यो व्यापी प्रतिक्षेत्रमात्मा भिन्नस्स्वतस्सुखी ॥” इति ॥ अनन्यसाधनः-स्वप्रकाशः। व्यापी-अतिसूक्ष्मतया सर्वाचेतनान्त:प्रवेशनस्वभावः॥ १. गी. १२. अ. ७. श्लो. २. गी. १४. अ. ४. श्लो. ३. गी. ७. अ, २६. श्लो, ४. तर्हितस्याहकारस्येति. पा. ५. गी. १३. अ. ५. श्लो. ६. वि. पु. ६. अं. ७. अ. १०.११.श्लो. ७. तच्छ्रयतामविद्याया इति. पा. ८. ९, आत्मसिद्धौ. For Private And Personal Use Only
SR No.020696
Book TitleSharirik Mimansa Bhashye Part 01
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1909
Total Pages465
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy