SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शारीरकमीमांसाभाष्ये [अ. १. यदुक्तं दोषमूलत्वेनान्यथासिद्धिसंभावनया सकलभेदावलम्बिप्रत्यक्षस्य शास्त्रबाध्यत्वम्-इति ॥ कोऽयं दोष इति वक्तव्यम्, यन्मूलतया प्रत्यक्षस्यान्यथासिद्धिः। अनादिभेदवासनैव हि दोष इति चेत् ; भेदवासनायास्तिमिरादिवद्यथावस्थितवस्तुविपरीतज्ञानहेतुत्वं किमन्यत्र ज्ञातपूर्वम्? अनेनैव शास्त्रविरोधेन ज्ञास्यत इति चेत्, न, अन्योन्याश्रयणात् , शास्त्रस्य निरस्तनिखिलविशेषवस्तुबोधित्वनिश्चये सति भेदवासनाया दोषत्वनिश्चयः, भेदवासनाया दोषत्वनिश्चये सति शास्त्रस्य निरस्तनिखिलविशेषवस्तुबोधित्वनिश्चय इति। किंच, यदि भेदवासनामूलत्वेन प्रत्यक्षस्य विपरीतार्थत्वम् । शास्त्रमपि तन्मूलत्वेन तथैव स्यात् ।। अथोच्येत---दोषमूलत्वेऽपि शास्त्रस्य प्रत्यक्षावगतसकलभेदनिरसनज्ञानहेतुत्वेन परत्वात्तत्प्रत्यक्षस्य बाधकम् -- इति।तन्नदोषमूलत्वे ज्ञाते सति परत्वमकिंचित्करम् । रज्जुसपज्ञाननिमित्तभये सति भ्रान्तोऽयमिति परिज्ञातेन केनचित् 'नायं सो मा भैषीः'इत्युक्तेऽपि भयानिवृत्तिदर्शनात् । शास्त्रस्य च दोषमूलत्वं श्रवणवेलायामेव ज्ञातम् । श्रवणावगतनिखिलभेदोपर्दिब्रह्मात्मैकत्वविज्ञानाभ्यासरूपत्वान्मननादेः॥ अपि च इदं शास्त्रम् । एतच्चासंभाव्यमानदोषम् । प्रत्यक्षं तु संभाव्यमानदोषमिति केनावगतं त्वयान तावत्स्वतस्सिद्धा निर्धूतनिखिलविशेषाऽनुभूतिरिममर्थमवगमयति । तस्यास्सर्वविषयविरक्तत्वात् , शास्त्रपक्षपातविरहाच्च । नाप्यन्द्रियिकं प्रत्यक्षम् , दोषमूलत्वेन विपरीतार्थत्वात् । तन्मूलत्वादेव नान्यान्यपि प्रमाणानि । अतस्वपक्षसाधनप्रमाणानभ्युपगमान्न स्वाभिमतार्थसिद्धिः॥ १. किमप्यन्येनेति. पा. For Private And Personal Use Only
SR No.020696
Book TitleSharirik Mimansa Bhashye Part 01
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1909
Total Pages465
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy