________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शारीरकमीमांसाभाग्ये
[अ. १. बुद्धिपूर्वकारी प्रयतते । अतोऽहमर्थस्यैव ज्ञातृतया सिद्ध्यतः प्रत्यगात्मत्वम् । स च प्रत्यगात्मा मुक्तावप्यहमित्येव प्रकाशते, स्वस्मै प्रकाशमानत्वात् । योयः स्वस्मै प्रकाशते, स सर्वोऽहमित्येव प्रकाशते, यथा तथावभासमानत्वेनोभयवादिसम्मतस्संसार्यात्मा । यः पुनरहमिति न चकास्ति ; नासौ स्वस्मै प्रकाशते, यथा घटादिः। स्वस्मै प्रकाशते चायं मुक्तात्मा; तस्मादहमित्येव प्रकाशते ॥
न चाहमिति प्रकाशमानत्वेन तस्याज्ञत्वसंसारित्वादिप्रसङ्गः । मोक्षविरोधात् , अज्ञत्वाद्यहेतुत्वाच्चाहंप्रत्ययस्य । अज्ञानं नाम स्वरूपाज्ञानमन्यथाज्ञानं विपरीतज्ञानं वा । अहमित्येवाऽत्मनस्वरूपमिति स्वरूपज्ञानरूपोऽहंप्रत्ययो नाज्ञत्वमापादयति ; कुतस्संसारित्वम् । अपि तु तद्विरोधित्वान्नाशयत्येव ॥
ब्रह्मात्मभावापरोक्ष्यनिर्धतनिरवशेषाविद्यानामपि वामदेवादीनामहमित्येवात्मानुभवदर्शनाच्च । श्रूयते हि- २" तबैतत्पश्यन्नृषिर्वामदेवः प्रतिपेदे अहं मनुरभवं सूर्यश्च" इति, ३" अहमेकः प्रथममासं वामि च भविष्यामि च"इत्यादि।सकलेतराज्ञानविरोधिनस्सच्छब्दप्रत्ययमात्रभाजः परस्य ब्रह्मणो व्यवहारोऽप्येवमेव--४" हन्ताहमिमास्तिस्रो देवताः" ५"बहु स्यां प्रजायेय" ६" स ईक्षत लोकान्नु सृजा इति"; तथा७" यस्मात्क्षरमतीतोऽहमक्षरादपि चोत्तमः । अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः"८"अहमात्मा गुडाकेश" "न त्वेवाहं जातु नासम्" १०" अहं कृत्स्नस्य जगतः प्रभवः प्रलयस्तथा" ११“अहं सर्वस्य प्रभवो १. स तरमादिति. पा.
७ गीता. १५. अ. १८. लो. २. बृ. ३. अ. ४. ब्रा. १०. वा.
८. गी. १०. अ. २०. श्लो. ३. अथर्वशिरोपनिषदि. ९. खण्डे. ९. गी. २. अ. १२. श्लो.. ४. छा. ६. प्र. ३. ख. २. वा.
१०. गी ७. अ. ६. श्लो, ५. तै. आन. ६. अनु. २. वा.
११. गी. १०. अ. ८. श्लो. ६. ऐतरेय. १. अनु. १. ख. १. वा.
For Private And Personal Use Only