SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पा. १.] जिज्ञासाधिकरणम् . ४५ यः । अत्र सुप्तोऽहमीदृशोऽहमिति च मामपि न ज्ञातवानहमित्येव खल्वनुभवप्रकारः॥ किंच, सुषुप्तावात्माऽज्ञानसाक्षित्वेनाऽस्त इति हि भवदीया प्रक्रिया । साक्षित्वं च साक्षाज्ज्ञातृत्वमेव । न ह्यजानतस्साक्षित्वम् । ज्ञातैव हि लोकवेदयोस्साक्षीत व्यपदिश्यते ; न ज्ञानमात्रम् । स्मरति च भगवान् पाणिनिः१"साक्षादृष्टरि संज्ञायाम्" इति साक्षाज्ज्ञातर्येव साक्षिशब्दम् । स चायं साक्षी जानामीति प्रतीयमानोऽस्मदर्थ एवेति कुतस्तदानीमहमर्थो न प्रतीयेत । आत्मने स्वयमवभासमानोऽहमित्येवावभासत इति स्वापाद्यवस्थास्वप्यात्मा प्रकाशमानोऽहमित्येवावभासत इति सिद्धम् ॥ यत्तु मोक्षदशायामहर्थो नानुवर्तते इति ; तदपेशलम् । तथा सत्यात्मनाश एवापवर्गः प्रकारान्तरेण प्रतिज्ञातः स्यात् । न चाहमर्थों धर्ममात्रम् ; येन तद्विगमेऽप्यविद्यानिवृत्ताविव स्वरूपमवतिष्ठेत । प्रत्युत खरूपमेवाहमर्थ आत्मनः। ज्ञानं तु तस्य धर्मः, 'अहं जानामि, ज्ञानं मे जातम्' इति चाहमर्थधर्मतया ज्ञानप्रतीतेरेव ॥ अपि च यः परमार्थतो भ्रान्त्या वाऽऽध्यात्मिकादिदुःखैर्दुःखितया ३स्वात्मानमनुसंधत्ते'अहं दुःखी'इति।सर्वमेतदःखजातमपुनर्भवमपोह्य'कथमहमनाकुलस्वस्थो भवेयम् 'इत्युत्पन्नमोक्षरागस्स एव तत्साधने प्रवर्तते। स साधनानुष्ठानेन यद्यहमेव न भविष्यामीत्यवगच्छेत् ; अपसेपेदेवासौ मोक्षकथाप्रस्तावात् । ततश्चाधिकारिविरहादेव सर्व मोक्षशास्त्रमप्रमाणं स्यात् । अहमुपलक्षितं प्रकाशमात्रमपवर्गेऽवतिष्ठत इति चेत् ; किमनेन? माय नष्टेऽपि किमपि प्रकाशमात्रमपवर्गेऽवतिष्ठत इति मत्वा नहि कश्चित् १. अष्टा. ५, अ. २. पा. ९१. सू. ४. प्रकाशमात्रमपवर्गेऽप्यवतिष्ठत. इति. पा. २. साक्षादृष्टर्येवेति. पा. ५. प्रकाशमात्रमवतिष्ठत इति. पा. ३, आत्मानमिति. पा. For Private And Personal Use Only
SR No.020696
Book TitleSharirik Mimansa Bhashye Part 01
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1909
Total Pages465
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy