SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४४ शारीरकमीमांसाभाष्ये [भ. १. अनेन प्रत्यवमर्शेन तदानीमप्यहमर्थस्यैवाऽत्मनस्सुखित्वं ज्ञातृत्वं च ज्ञायते ॥ न च वाच्यं यथेदानीं सुखं भवति तथा तदानीमखाप्समित्येषा प्रतिपत्तिरिति ; अतद्रपत्वात्प्रतिपत्तेः। न चाहमर्थस्याऽत्मनोऽस्थिरत्वेन तदानीमहमर्थस्य सुखित्वानुसंधानानुरुपत्तिः, यतस्सुषुप्तिदशायाः प्रागनुभूतं वस्तु सुप्तोत्थितो 'मयेदं कृतं मयेदमनुभूतमहमेतदवोचम् इति परामृशति । 'एतावन्तं कालं न किंचिदहमज्ञासिषम् इति च परामृशतीति चेत् । ततः किम् ? न किंचिदिति कृत्स्नप्रतिषेध इति चेत् ; न, 'नाहमवेदिषम्' इति वेदितुरहमर्थस्यैवानुवृत्तेः वेद्यविषयो हि स प्रतिषेधः। न किंचिदिति निषेधस्य कृत्स्नविषयत्वे भवदभिमतानुभूतिरपि प्रतिषिद्धा स्यात् । सुषुप्तिसमये त्वनुसंधीयमानमहमर्थमात्मानं ज्ञातारमहमिति परामृश्य न किंचिदवेदिषमिति वेदने तस्य प्रतिषिध्यमाने तस्मिन् काले निषिध्यमानाया वित्तेस्सिद्धिमनुवर्तमानस्य ज्ञातुरहमर्थस्य चासिद्धिमनेनैव 'न किंचिदहमवेदिषम् इति परामर्शन साधयंस्तमिममर्थ देवानामेव साधयतु ॥ ___'मामप्यहं न ज्ञातवान्' इति अहमर्थस्यापि तदानीमननुसंधानं २प्रतीयत इति चेत् ; खानुभवखवचनयोर्विरोधमपि न जानन्ति भवन्तः। 'अहं मां न ज्ञातवान् 'इति ह्यनुभववचने । मामिति किं निषिध्यत इति चेत् ; साधु पृष्टं भवता । तदुच्यते, अहमर्थस्य ज्ञातुरनुवृत्तेः न खरूपं निषिध्यते ; अपि तु प्रबोधसमयेऽनुसंधीयमानस्याहमर्थस्य वर्णाश्रमादिविशिष्टता । अहं मां न ज्ञातवानित्युक्ते विषयो विवेचनीयः। जागरितावस्थानुसंहितजात्यादिविशिष्टोऽस्मदर्थों मामित्यंशस्य विषयः। खाप्ययावस्थापसिद्धाविशदस्वानुभवैकतानश्चाहमर्थोऽहमित्यंशस्य विष१. अनेनैवेति. पा. २. प्रतिषिध्यत इति. पा. For Private And Personal Use Only
SR No.020696
Book TitleSharirik Mimansa Bhashye Part 01
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1909
Total Pages465
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy