________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पा. १.]
जिज्ञासाधिकरणम्.
કા
ज्ञानं निवर्तयति, यथा रज्ज्वादौ । अतो न केनापि कदाचित्संविदा - यमज्ञानमुच्छिद्येत । अस्य च सदसदनिर्वचनीयस्याज्ञानस्य स्वरूपमेव दुर्निरूपमित्युपरिष्टाद्वक्ष्यते । ज्ञानप्रागभावरूपस्य चाज्ञानस्य ज्ञानोत्पत्तिविरोधित्वाभावेन न तन्निरसनेन तज्ज्ञानसाधनानुग्रहः । अतो न केनापि 'प्रकारेणाहङ्कारेणानुभूतेरभिव्यक्तिः ॥
न च स्वाश्रयतयाऽभिव्यङ्गयाभिव्यञ्जनमभिव्यञ्जकानां स्वभावःः प्रदीपादिष्वदर्शनात् यथावस्थित पदार्थप्रतीत्यनुगुणस्वाभाव्याच्च ज्ञानतत्साधनयोरनुग्राहकस्य च । तच्च स्वतः प्रामाण्यन्यायसिद्धम् ॥
न च दर्पणादिर्मुखादेरभिव्यञ्जकः, अपि तु चाक्षुषतेजःप्रतिफलनरूपदोषहेतुः । तद्देोषकृतश्च तत्त्रान्यथावभासः । अभिव्यञ्जकस्तत्वालोकादिरेव ॥
न चेह तथाहङ्कारण संविदि स्वप्रकाशायां तादृशदोषापादनं संभवति । व्यक्तेस्तु जातिराकार इति तदाश्रयतया प्रतीतिः न तु व्यक्तिव्यङ्ग्यत्वात् । अतोऽन्तःकरणभूताहङ्कारस्थतया संविदुपलब्धेर्वस्तुतो दोषतो वा न किंचिदिह कारणमिति नाहङ्कारस्य ज्ञातृत्वं तथोपलब्धिर्वा । तस्मात्स्वत एव ज्ञातृतया सिद्ध्यन्नहमर्थ एव प्रत्यगात्मा । न ज्ञप्तिमात्रम् । अहंभावविगमे तु ज्ञप्तेरपि न प्रत्यक्त्वसिद्धिरित्युक्तम् ||
तमोगुणाभिभवात्परागर्थानुभवाभावाच्चाहमर्थस्य विविक्तस्फुटयतिभासाभावेऽप्यार प्रबोधादहमित्येकाकारेणाऽत्मनस्स्फुरणात्सुषुप्तावपि नाभावविगमः । भवदभिमताया अनुभूतेरपि तथैव प्रथेति वक्तव्यम् ॥
न हि सुप्तोत्थितः कश्चिदहं भाववियुक्तार्थान्तरप्रत्यनीकाकारा ज्ञप्तिरहमज्ञानसाक्षितयारॆऽवतिष्ठत इत्येवंविधां स्वापसमकालामनुभूर्ति परामृशति । एवं हि सुप्तोत्थितस्य परामर्शस्सुखमहम स्वाप्तमिति ॥ १. प्रकारेणानुभूतेरिति. पा.
२. प्रतिबोधेति. पा. ३. अवतिष्ठ इत्येवमिति, पा.
For Private And Personal Use Only