________________
Shri Mahavir Jain Aradhana Kendra
४२
www.kobatirth.org
शारीरकमीमांसाभाष्ये
[अ. १.
बहुलास्स्वयमेव स्फुटतरमुपलभ्यन्त इति तद्वाहुल्यमात्र हेतुत्वात्करतलस्य
नाभिव्यञ्जकत्वम् ।।
किंचास्य 'संवित्स्वरूपस्याऽत्मनोऽहंकार निर्वर्त्याभिव्यक्तिः किंरूपा न तावदुत्पत्तिः स्वतस्सिद्धतयाऽनन्योत्पाद्यत्वाभ्युपगमात् । नापि तत्प्रकाशनम्, तस्यानुभवान्तराननुभाव्यत्वात् । तत एव च न तदनुभवसाधनानुग्रहः ।।
स हि द्विधा ज्ञेयस्येन्द्रियसंबन्धहेतुत्वेन वा यथा जातिनिजमुखादिग्रहणे व्यक्तिदर्पणादीनां नयनादीन्द्रियसंबन्धहेतुत्वेन; बोद्धृगतकल्मपापनयनेन वा यथा परतत्त्वावबोधनसाधनस्य शास्त्रस्य शमदमादिना । यथोक्तं – ३" करणानामभूमित्वान्न तत्संबन्धहेतुता” इति ॥
किंच अनुभूतेरनुभाव्यत्वाभ्युपगमेऽप्यहमर्थेन न तदनुभवसाधनानुग्रहस्सुवचः; स ह्यनुभाव्यानुभवोत्पत्ति प्रतिबन्धनिरसनेन भवेत् । यथा रूपादिग्रहणोत्पत्तिनिरोधसंतमसनिरसनेन चक्षुषो दीपादिना ।
,
Acharya Shri Kailassagarsuri Gyanmandir
न चेह तथाविधं निरसनीयं सम्भाव्यते । न तावत्संविदात्मगतं तज्ज्ञानोत्पत्तिनिरोध किंचिदप्यहंकारापनेयमस्ति । अस्ति ह्यज्ञानमिति चेतुः न, अज्ञानस्याहंकारापनोद्यत्वानभ्युपगमात् । ज्ञानमेव ह्यज्ञानस्य निवर्तकम् ।।
न च संविदाश्रयत्वमज्ञानस्य सम्भवति ; ज्ञानसमानाश्रयत्वात्तत्समानविषयत्वाच्च ज्ञातृभावविषयभावविरहिते ज्ञानमात्रे साक्षिणि नाज्ञानं भवितुमर्हति; यथा ज्ञानाश्रयत्वप्रसक्तिशून्यत्वेन घटादेर्नाज्ञानाश्र - यत्वम् । तथा ज्ञानमात्रेऽपि ज्ञानाश्रयत्वाभावेन नाज्ञानाश्रयत्वं स्यात् । संविदोऽज्ञानाश्रयत्वाभ्युपगमेऽपि आत्मतयाऽभ्युपगतायास्तस्या ज्ञानविषयत्वाभावेन ज्ञानेन न तद्गताज्ञाननिवृत्तिः । ज्ञानं हि स्वविषय एवा१. संविद्रूपस्येति. पा. २. अहङ्कारादीति. पा. ३. आत्मसिद्धौ. ४. प्रतिबन्धकेति. पा.
For Private And Personal Use Only