________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३४
शारीरकमीमांसाभाष्ये
[अ. १. ___ यदपि अनुभूतिरंजत्वात्स्वस्मिन्विभागं न सहते इति।तदपि नोपपद्यते, अजस्यैवाऽत्मनो देहेन्द्रियादिभ्यो विभक्तत्वादनादित्वेन चाभ्युपगताया अविद्याया आत्मनो व्यतिरेकस्यावश्याश्रयणीयत्वात् । १ स विभागो मिथ्यारूपइति चेत् ; जन्मप्रतिबद्धः परमार्थविभागः किं कचिदृष्टस्त्वया?। अविद्याया आत्मनः परमार्थतो विभागाभावे २वस्तुतो ह्यविचैव स्यादात्मा । अबाधितप्रतिपत्तिसिद्धदृश्यभेदसमर्थनेन दर्शनभेदोऽपि समर्थित एव, छेद्यभेदाच्छेदनभेदवत् ॥
यदपि-३नास्या दृशेदृशिरूपाया दृश्यः कश्चिदपि धर्मोऽस्ति दृश्यत्वादेव तेषां न दृशिधर्मत्वम् इति चातदपि स्वाभ्युपगतैः प्रमाणसिद्धैर्नित्यत्वस्वयंप्रकाशत्वादिधमरुभयमनैकान्तिकम् । न च ते संवेदनमात्रम्, स्वरूपभेदात् । स्वसत्तयवै स्वाश्रयं प्रति कस्यचिद्विषयस्य प्रकाशनं हि संवेदनम् । स्वयंप्रकाशता तु स्वसत्तयैव स्वाश्रयाय प्रकाशमानता। प्रकाशश्व चिदचिदशेषपदार्थसाधारणं व्यवहारानुगुण्यम् ॥
सर्वकालवर्तमानत्वं हि नित्यत्वम् । एकत्वमेकसंख्यावच्छेदइति । तेषां जडत्वाद्यभावरूपतायामपि तथाभूतैरपि चैतन्यधर्मभूतैस्तैरनैकान्त्यमपरिहार्यम् । संविदि तु स्वरूपातिरेकेण जडत्वादिप्रत्यनीकत्वमित्यभावरूपो भावरूपो वा धर्मो नाभ्युपेतश्चेत् । तत्तनिषेधोक्त्या किमपि नोक्तं भवेत् ॥ __अपिच संवित्सिध्यति वा न वा सिध्यति चेत् सधर्मता स्यात्। न चेत् तुच्छता, गगनकुसुमादिवत् । सिद्धिरेव संविदिति चेत् । कस्य के प्रतीति वक्तव्यम् । यदि न कस्य चित्कंचित्पात ; सा तर्हि न सिद्धिः। सिद्धिर्हि पुत्रत्वामिव कस्यचित्कंचित्पति भवति।आत्मन इति चेत्कोऽयमात्मा?; ननु संविदेवेत्युक्तम् । सत्यमुक्तम् दुरुक्तं तु तत् । तथाहि ; १. स चेति. पा.
| ३. नास्या दृशिस्वरूपाया इति. पा. २. वस्तुतोऽविद्यैवेति. पा.
। ४. दुरुक्तं तदिति. पा.
For Private And Personal Use Only