________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
पा. १.]
जिज्ञासाधिकरणम्
३३
वाच्यम्;योग्यानुपलब्धिपराहतत्वात्। तास्वपि दशास्वनुभूतिरनुभूता चेत्; तस्याः प्रबोधसमयेऽनुसंधानं स्यात् न च तदस्ति ॥
नवभूतस्य पदार्थस्य स्मरणनियमो न दृष्टचरः । अतस्स्मरणाभावः कथमनुभवाभावं साधयेत् ? । उच्यते ; निखिलसंस्कार तिरस्कृतिकरदेहविगमादिप्रबलहेतुविरहेऽप्यस्मरणनियमो ऽनुभवाभावमेव साधयति, न केवलमस्मरणनियमादनुभवाभावः सुप्तोत्थितस्य 'इयन्तं कालं न किंचिदहमज्ञासिषम्' इति प्रत्यवमर्शेनैव सिद्धेः न च सत्यप्यनुभवे तदस्मरणनियमो विषयावच्छेदविरहादहंकारविगमाद्वेति शक्यते वक्तुम्, अर्थान्तराननुभवस्यार्थान्तराभावस्य चानुभूतार्थान्तरास्मरणहेतुत्वाभावात्। तास्वपि दशास्वहमर्थोऽनुवर्तत इति च वक्ष्यते ॥
Acharya Shri Kailassagarsuri Gyanmandir
ननु स्वापादिदशास्वपि सविशेषोऽनुभवोऽस्तीति पूर्वमुक्तम् । सत्यमुक्तम् ; स त्वात्मानुभवः । स च सविशेष एवेति स्थापयिष्यते । इह तु सकलविषयविरहिणी निराश्रया च संविनिषिध्यते । केवलैव संविदात्मानुभव १ इति चेत् सा च साश्रयेति छुपपादयिष्यते । अतोऽनुभूतिस्सती स्वयं स्वप्रागभावं न साधयतीति प्रागभावासिद्धिर्न शक्यते वकुम् । अनुभूतेरनुभाव्यत्वसम्भवोपपादनेनान्यतोऽप्यसिद्धिर्निरस्ता । तस्मान्न प्रागभावाद्यसिद्ध्या संविदोऽनुत्पत्तिरुपपत्तिमती ||
यदस्या अनुत्पच्या विकारान्तरनिरसनम् ; तदप्यनुपपन्नम्, प्रागभावे व्यभिचारात् । तस्य हि जन्माभावेऽपि विनाशो दृश्यते । भावेष्विति विशेषणे तर्ककुशलताऽऽविष्कृता भवति । तथाच भवदभिमता - विद्याऽनुत्पन्नैव विविधविकारास्पदं तत्त्वज्ञानोदयादन्तवती चेति तस्यामनैकान्त्यम् । तद्विकारास्सर्वे मिथ्याभूता इति चेत्; किं भवतः परमार्थभूतोऽप्यस्ति विकारः । येनैतद्विशेषणमर्थवद्भवति । न ह्यसावभ्युपगम्यते ॥
१. इति चेत् न; इति. पा.
२. तत्त्वज्ञानादिति. पा.
२
For Private And Personal Use Only