________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३२
शारीरकमीमांसाभाष्ये
[अ. १.
न हि प्रमाणस्य स्वसमकालवर्तिनाऽविनाभावोऽर्थसम्बन्धः अपि तु यद्देशकालादिसम्बन्धितया योऽर्थोऽवभासते तस्य तथाविधाकारमिथ्यात्वमत्यनीकता । अत इदमपि निरस्तं स्मृतिर्न बाह्यविषया नष्टेऽप्यर्थे स्मृतिदर्शनात् इति ॥
अथोच्येत न तावत्संवित्प्रागभावः प्रत्यक्षावसेयः, अवर्तमानत्वात्। न च प्रमाणान्तरावसेयः, लिङ्गाद्यभावात् । न हि संवित्प्रागभावव्याप्तमिह लिङ्गमुपलभ्यते न चाऽगमस्तद्विषयो दृष्टचरः । अतस्तत्प्रागभावः प्रमाणाभावादेव न सेत्स्यति - इति; यद्येवं स्वतस्सिद्धत्वविभवं परित्यज्य २ प्रमाणाभावेऽवरूढश्चेत् ; योग्यानुपलब्ध्यैवाभावस्समर्थित इत्युपशाम्यतु भवान् ॥
किंच प्रत्यक्षज्ञानं स्वविषयं घटादिकं स्वसत्ताकाले सन्तं साधयतस्य न सर्वदा सत्तामवगमयदृश्यत इति घटादेः पूर्वोत्तरकालसत्ता न प्रतीयते । तदप्रतीतिश्च संवेदनस्य कालपरिच्छिन्नतया प्रतीतेः। घटादिविषयमेव संवेदनं स्वयं कालानवच्छिन्नं प्रतीतं चेत ;संवेदनविषयो घटादिरपि कालानवच्छिन्नः प्रतीयेतेति नित्यस्स्यात् । नित्यं चेत्संवेदनं स्वतस्सिद्धं नित्यमित्येव प्रतीयेत । न च तथा प्रतीयते ॥
-
एवमनुमानादिसंविदोऽपि कालानवच्छिन्नाः प्रतीताश्चेत्; स्वविषयानपि कालानवच्छिन्नान् प्रकाशयन्तीति ते च सर्वे कालानवच्छिन्ना नित्यास्स्युः; ३संविदनुरूपत्वाद्विषयाणाम्। न च निर्विषया काचित्संविदस्ति; अनुपलब्धेः । विषयप्रकाशनतयैवोपलब्धेरेव हि संविदस्स्वयंप्रकाशता समर्थिता; संविदो विषयप्रकाशनतास्वभावविरहे सति स्वयंप्रकाशत्वासिद्धेः अनुभूतेरनुभवान्तराननुभाव्यत्वाच्च संविदस्तुच्छतैव स्यात् । न च स्वापमदमूर्च्छादिषु सर्वविषयशून्या केवलैव संवित्परिस्फुरतीति १. नानुपपत्तिरपि कस्यचिद्दृश्यते. इति. कुण्ड
तिं दृश्यते ॥
२. प्रमाणभावे. इति. पा.
३. संविदनुरूपस्वरूपत्वादिति. पा.
For Private And Personal Use Only