SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पा. १.] जिज्ञासाधिकरणम् . त्वं नाम वर्तमानदशायां स्वसत्तयैव स्वाश्रयं प्रति प्रकाशमानत्वं, स्वसत्तयैव स्वविषयसाधनत्वं वा । ते चानुभवान्तरानुभाव्यत्वेऽपि खानुभवसिद्धे नापगच्छत इति नानुभूतित्वमपगच्छति । घटादेस्त्वननुभूतित्वमेतत्स्वभावविरहात् ; नानुभाव्यत्वात् । तथाऽनुभूतेरननुभाव्यत्वेऽ पि अननुभूतित्वप्रसङ्गो दुर्वारः; गगनकुसुमादेरननुभाव्यस्याननुभूतित्वात् ॥ गगनकुसुमादेरननुभूतित्वमसत्त्वप्रयुक्तम् , नाननुभाव्यत्वप्रयुक्तम् -इतिचेत् एवं तर्हि घटादेरप्यज्ञानाविरोधित्वमेवाननुभूतित्वनिबन्धनम्, नानुभाव्यत्वमित्यास्थीयताम् । अनुभूतेरनुभाव्यत्वे अज्ञानाविरोधित्वमपि तस्याः घटादेरिव प्रसज्यत इति चेत् । अननुभाव्यत्वेऽपि गगनकुसुमादेरिवाज्ञानाविरोधित्वमपि प्रसज्यत एव। अतोऽनुभाव्यत्वेऽननुभूतित्वमित्युपहास्यम् ॥ ___ यत्तु-संविदरस्वतस्सिद्धायाः प्रागभावाद्यभावादुत्पत्तिनिरस्यते, तदन्धस्य जात्यन्धेन यष्टिः प्रदीयते । प्रागभावस्य ग्राहकाभावादभावो न शक्यते वक्तुम् ; अनुभूत्यैव ग्रहणात् । कथमनुभूतिस्सती तदानीमेव खाभावं विरुद्धमवगमयतीति चेत् । न ह्यनुभूतिस्वसमकालवर्तिनमेव विषयीकरोतीत्यस्ति नियमः, अतीतानागतयोरविषयत्वप्रसङ्गात् ॥ __ अथ मन्यसे - अनुभूतिप्रागभावादेस्सिद्ध्यतस्तत्समकालभाव - नियमोऽस्तीतिः किं त्वया कचिदेवं दृष्टम् ?, येन नियमं ब्रवीषि । हन्त तर्हि तत एव दर्शनात् प्रागभावादिस्सिद्ध इति न तदपह्नवः। तत्यागभावं च तत्समकालवर्तिनमनन्मत्तः को ब्रवीति । इन्द्रियजन्मनः प्रत्यक्षस्य ह्येष स्वभावनियमः, यत्स्वसमकालवर्तिनः पदार्थस्य ग्राहकत्वम् ; न सर्वेषां ज्ञानानां प्रमाणानां च ; स्मरणानुमानागमयोगिप्रत्यक्षादिषु कालान्तरवर्तिनोऽपि ग्रहणदर्शनात्।अत एव चप्रमाणस्य प्रमेयाविनाभावः १. तदभावनिह्नव: इति. पा. For Private And Personal Use Only
SR No.020696
Book TitleSharirik Mimansa Bhashye Part 01
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1909
Total Pages465
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy