________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
0
शारीरकर्मीमांसाभाष्ये
[अ. १. द्वयोनियोर्विरोधे हि बाध्यबाधकभावः । बाधितस्यैव व्यावृत्तिः । अत्र घटपटादिषु देशकालभेदेन विरोध एव नास्ति । यस्मिन् देशे यस्मिन् काले यस्य सद्भावः प्रतिपन्नः, तस्मिन् देशे तस्मिन् काले तस्याभावः प्रतिपन्नश्चेत् तत्र विरोधात् बलवतो बाधकत्वं बाधितस्य च निवृत्तिः, देशान्तरकालान्तरसंबन्धितयाऽनुभूतस्यान्यदेशकालयोरभाव प्रतीतौ न विरोध इति कथमत्र बाध्यबाधकभावः। अन्यत्र निवृत्तस्यान्यन निवृत्तिर्वा कथमुच्यते।रज्जुसादिषु तु तद्देशकालसंबन्धितयैवाभावप्रतीतेः,विरोधो बाधकत्वं व्यावृत्तिश्चेति २देशकालान्तरव्यावर्तमानत्वं मिथ्यात्वव्याप्तंन दृष्टमितिन व्यावर्तमानत्वमात्रमपारमार्थ्यहेतुः।।
यत्तु-अनुवर्तमानत्वात्सत्परमार्थः - इति,तत्सिद्धमेवेति न साधनमर्हति । अतो न सन्मात्रमेव वस्तु ॥
अनुभूतिसद्विशेषयोश्च विषयविषयिभावेन भेदस्य प्रत्यक्षसिद्धत्वादवाधितत्वाचानुभूतिरेव सतीत्येतदपि निरस्तम् ॥
___ यत्त्वनुभूतेस्वयंप्रकाशत्वमुक्तम् । तद्विषयप्रकाशनवेलायां ज्ञातुरात्मनस्तथैवः न तु सर्वेषां सर्वदा तथैवेति नियमोऽस्ति, परानुभवस्य हानोपादानादिलिङ्गकानुमानज्ञानविषयत्वात् , स्वानुभवस्याप्यतीतस्य 'अज्ञासिषम्' इतिज्ञानाविषयत्वदर्शनाच्च । अतोऽनुभूतिश्चेत् खतस्सिद्धति वक्तुं न शक्यते ॥
अनुभूतेरनुभाव्यत्वे अननुभूतित्वमित्यपि दुरुक्तम् ; स्वगतातीतानुभवानां परगतानुभवानां चानुभाव्यत्वेनाननुभूतित्वप्रसङ्गात् । परानुभवानुमानानभ्युपगमे च शब्दार्थसम्बन्धग्रहणाभावेन समस्तशब्दव्यवहारोच्छेदप्रसङ्गः । आचार्यस्य ज्ञानवत्त्वमनुमाय तदुपसत्तिश्व क्रियते सा च नोपपद्यते । न चान्यविषयत्वेऽननुभूतित्वम् ; अनुभूति१. देशकालान्तरदृष्टस्य देशकालान्तरव्यावर्तमान- | २. प्रतिपत्तौ, इति. पा. त्वमिति, पा.
For Private And Personal Use Only