SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पा. १.] जिशासाधिकरणम् २९ स्सर्वे शब्दा एकैकप्रतिपत्तिषु किमिति न स्मर्यन्ते । किञ्च अश्वे हस्तिनि च संवेदनयोरेकविषयत्वेन उपरितनस्य गृहीतग्राहित्वाद्विशेषाभावाच्च स्मृतिवैलक्षण्यं न स्यात् । प्रतिसंवेदनं विशेषाभ्युपगमे प्रत्यक्षस्य विशिष्टार्थविषयत्वमेवाभ्युपगतं भवति । सर्वेषां संवेदनानामेकविषयतायामेकेनैव संवेदनेनाशेषग्रहणादन्धबधिरायभावश्च प्रसज्येत । न च चक्षुषा सन्मानं गृह्यते , तस्य रूपरूपिरूपैकार्थसमवेतपदार्थग्राहित्वात् । नापि त्वचा, स्पर्शवद्वस्तुविषयत्वात् । श्रोतादीन्यपि न सन्मात्रविषयाणि ; किंतु शब्दरसगन्धलक्षणविशेषविषयाण्येव । अतस्सन्मात्रस्य ग्राहकं न किश्चिदिह दृश्यते । निर्विशेषसन्मात्रस्य प्रत्यक्षेणैव ग्रहणे तद्विषयागमस्य प्राप्तविषयत्वेनानुवादकत्वमेव स्यात् । सन्मात्रब्रह्मणः प्रमेयभावश्च । ततो जडत्वनाशित्वादयस्त्वयैवोक्ताः। अतो वस्तुसंस्थानरूपजात्यादिलक्षणभेदविशिष्टविषयमेव प्रत्यक्षम् ; संस्थानातिरेकिणोऽनेकेष्वेकाकारबुद्धिबोध्यस्यादर्शनात्, तावतैव गोत्वादिजातिव्यवहारोपपत्तेः। अतिरेकवादेऽपि संस्थानस्य संप्रतिपन्नत्वाच्च संस्थानमेव जातिः। संस्थानं नाम स्वासाधारणं रूपमिति यथावस्तु संस्थानमनुसंधेयम् : जातिग्रहणेनैव भिन्न इति व्यवहारसंभवात्, पदार्थान्तरादर्शनात् , अर्थान्तरवादिनाऽप्यभ्युपगतत्वाच गोत्वादिरेव भेदः। ननु च–जात्यादिरेव भेदश्चेत्तस्मिन् गृहीते तद्व्यवहारवद्भेदव्यहारस्स्यात् । सत्यम्, भेदश्च व्यवहियत एव, गोत्वादिव्यवहारात् । गोत्वादिरेव हि सकलेतरव्यावृत्तिः, गोत्वादौ गृहीते सकलेतरसजातीयबुद्धिव्यवहारयोनिवृत्तेः । भेदग्रहणेनैव ह्यभेदनिवृत्तिः । 'अयमस्माद्भिन्नः' इति तु व्यवहारे प्रतियोगिनिर्देशस्य तदपेक्षत्वात् प्रतियोग्यपेक्षया भिन्न इति व्यवहार इत्युक्तम् ॥ यत्पुनर्घटादीनां विशेषाणां व्यावर्तमानत्वेनापारमार्थ्यमुक्तम्,तदनालोचितबाध्यबाधकभावव्यावृत्त्यनुवृत्तिविशेषस्य भ्रान्तिपरिकल्पितम्।। For Private And Personal Use Only
SR No.020696
Book TitleSharirik Mimansa Bhashye Part 01
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1909
Total Pages465
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy