________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पा. १.]
जिज्ञासाधिकरणम्
कस्यचित्पुरुषस्य किंचिदर्थजातं प्रति सिद्धिरूपा तत्संबन्धिनी सा संवित्स्वयं कथमिवाऽत्मभावमनुभवेत् ॥
एतदुक्तं भवति–अनुभूतिरिति स्वाश्रयं प्रति स्वसद्भावेनैव कस्यचिद्वस्तुनो व्यवहारानुगुण्यापादनस्वभावो ज्ञानावगतिसंविदाद्यपरनामा सकर्मकोऽनुभवितुरात्मनो धर्मविशेषो 'घटमहं जानामीममर्थमवगच्छामि पटमहं संवेद्मि'इति सर्वेषामात्मसाक्षिकः प्रसिद्धः। एतत्स्वभावतया हि तस्यास्स्वयंप्रकाशता भवताऽप्युपपादिता । अस्य सकर्मकस्य कर्तृधर्मविशेषस्य कर्मत्ववत्कर्तृत्वमपि दुर्घटमिति ॥
तथाहिः अस्य कर्तुस्स्थिरत्वं कर्तृधर्मस्य संवेदनाख्यस्य सुखदुःखादेरिवोत्पत्तिस्थितिनिरोधाश्च प्रत्यक्षमीक्ष्यन्ते । कर्तृस्थैर्य तावत् 'स एवायमर्थः पूर्व मयाऽनुभूतः इति प्रत्यभिज्ञाप्रत्यक्षसिद्धम् । अहं जानामि, अहमज्ञासिषं, ज्ञातुरेव ममेदानीं ज्ञानं नष्टम्' इति च संविदुत्पत्त्यादयः प्रत्यक्षसिद्धा इति कुतस्तदैक्यम् । एवं क्षणभगिन्यास्संविद आत्मत्वाभ्युपगमे पूर्वेादृष्टमपरेयुः 'इदमहमदर्शम् इति प्रत्यभिज्ञा च न घटते ; अन्येनानुभूतस्य न ह्यन्येन प्रत्यभिज्ञानसंभवः॥
किश्च अनुभूतेरात्मत्वाभ्युपगमे तस्याः नित्यत्वेऽपि प्रतिसन्धानासम्भवस्तदवस्थः । प्रतिसन्धानं हि पूर्वापरकालस्थायिनमनुभवितारमुपस्थापयति नानुभूतिमात्रम् । अहमेवेदं पूर्वमप्यन्वभूवमिति । भवतोऽप्यनुभूतेन ह्यनुभवितृत्वमिष्टम् । अनुभूतिरनुभूतिमात्रमेव । संविनाम काचिनिराश्रया निर्विषया वाऽत्यन्तानुपलब्धेर्न संभवतीत्युक्तम् । ३उभयाभ्युपेता संविदेवाऽत्मेत्युपलब्धिपराहतम् । अनुभूतिमात्रमेव परमार्थ इति निष्कर्षकहेत्वाभासाश्च निराकृताः॥
ननु च–'अहं जानामि'इत्यस्मत्प्रत्यये योऽनिदमंशः प्रकाशैकरसश्चि१. प्रत्यक्ष इति. पा.
____३. उभयाभ्युपगतेति. पा. २. प्रतिसन्धानाभाव इति. पा. । ४. निष्कर्षे. इति. पा.
For Private And Personal Use Only