________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शारीरकमीमांसाभाष्ये
[अ. १. नावगमयति । तस्यास्सचे विरोधादेव तदभावो नास्तीति कथं सा स्वाभावमवगमयति । एवमसत्यपि नावगमयति; अनुभूतिस्वयमसती स्वाभावे कथं प्रमाणं भवेत् ? । नाप्यन्यतोऽवगन्तुं शक्यते, अनुभूतेरनन्यगोचरत्वात् । अस्याः प्रागभावं साधयत् प्रमाणम् 'अनुभूतिरियम्' इति विषयीकृत्य तदभावं साधयेत् ; स्वतस्सिद्धत्वेन इयमिति विषयीकारानहेत्वात् , न तत्मागभावोऽन्यतश्शक्यावगमः । अतोऽस्याः प्रागभावाभावादुत्पत्तिर्न शक्यते वक्तुमित्युत्पत्तिपतिसम्बद्धाश्चान्येऽपि भावविकारास्तस्या न सन्ति ॥
अनुत्पन्नेयमनुभूतिरात्मनि नानात्वमपि न सहते, व्यापकविरुद्धोपलब्धेः। न ह्यनुत्पन्नं नानाभूतं दृष्टम् । भेदादीनामनुभाव्यत्वेन च रूपादेरिवानुभूतिधर्मत्वं न सम्भवति । अतोऽनुभूतेरनुभवस्वरूपत्वादेवान्योऽपि कश्चिदनुभाव्यो नास्या धर्मः, यतो निधृतनिखिलभेदा संवित् । अत एव नास्यास्वरूपातिरिक्त आश्रयो ज्ञाता नाम कश्चिदस्तीति स्वप्रकाशरूपा सैवाऽत्मा, अजडत्वाच्च । अनात्मत्वव्याप्तं जडत्वं संविदि व्यावर्तमानमनात्मत्वमपि हि संविदो व्यावर्तयति ॥
ननु च-अहं जानामीति ज्ञातृता प्रतीतिसिद्धा। नैवम् सा भ्रान्तिसिद्धा, रजततेव शुक्तिशकलस्य, अनुभूतेस्वात्मनि कर्तृत्वायोगात् । अतो मनुष्योऽहमित्यत्यन्तबहिर्भूतमनुष्यत्वादिविशिष्टपिण्डात्माभिमानवत् ज्ञातृत्वमप्यध्यस्तम् । ज्ञातृत्वं हि ज्ञानक्रियाकर्तृत्वम् । तच्च विक्रियात्मकं जडं विकारिद्रव्याहंकारग्रन्थिस्थमविक्रिये साक्षिणि चिन्मात्रात्मनि कथमिव संभवति । दृश्यधीनसिद्धित्वादेव रूपादेरिव कर्तृत्वादेत्मिधर्मत्वम् । सुषुप्तिमूर्छादावहंप्रत्ययापायेऽप्यात्मानुभवदर्शनेन नाऽस्मनोऽहंप्रत्ययगोचरत्वम्। कर्तृत्वेऽहंप्रत्ययगोचरत्वे चाऽत्मनोऽभ्युपगम्यमाने देहस्येव जडत्वपराक्त्वानात्मत्वादिप्रसङ्गो दुष्परिहरः। अहंमत्य
For Private And Personal Use Only